( ५२२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वाविंश:- अथ सर्गभङ्गार्थ छन्दोऽन्तरेण तच्छेषभूतमर्थवशात् प्रकीर्णक क्रियाविलसितं दर्शयन्नाह - ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः सह पुष्पकं ते । सम्पस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः ॥ २४ ॥ तत इत्यादि ----कथाभिरनन्तरोक्याभः दोषां रात्रिं समतीत्य प्रेरयित्वा ततो- ऽनन्तरं ते रोमादयः पुष्पकं विमानमारुह्य सैन्ये: सह आयोध्यां यातुं संप्रस्थिताः । पयोधेः सलिलमगाधमक्षोभ्यमपि वेगवशात्प्रक्षाभयन्तः ॥ २४ ॥ सेतुं महेन्द्रं मलयं सविन्ध्यं समाल्यवन्तं गिरिमृष्यमूकम् । सदण्डकारण्यवतीं च पम्पां रामः प्रियायाः कथयन् जगाम ||२५|| सेतुमित्यादि – सेतुं समुद्रबन्धनं महेन्द्रं तदाख्यं शैलं मलयं सविन्ध्यं विन्ध्यं च । समाल्यवन्तं माल्यवन्तं च ऋष्यमूकं च गिरिम् दण्डकारण्य - गतां च पम्पाम् । एष सेतुस्त्वदर्थे मया कारितः एते च महेन्द्रादयः इत्येवं प्रियायाः सीतायाः कथयन् जगाम । अयोध्याभिमुखं गतवान् ॥ २५ ॥ ते ते मुनिजनमण्डिता दिगन्ताः शैलोऽयं लुलितवनः स चित्रकूटः । गङ्गेयं सुतनु विशालतीररम्या, मैथिल्या रघुतनयो दिशन्ननन्द ॥ २६ ॥ - - एते इत्यादि —– शोभना तनुः शरीरं यस्याः सात्वं हे सुतनु ! क्वचिदु- कारान्तमपि स्त्रियः प्रोक्तमिति वचनात् नदीसंज्ञकत्वात् सम्बुद्धिहस्वत्वम् । ‘कृषिचमितनिसर्जमज्जिभ्यः' इत्यौणादिकस्तनुशब्दः । एते दिगन्ता मुनिजनै- स्तन्निवासिभिर्मण्डिताः भूषिताः । अयं स चित्रकूट : यन्त्र भरतेनागम्य दृष्टोऽस्मि । लुलितवनोऽस्मद्वेगवशात् । इयं च गङ्गा विशालतीरतया रम्या | एवं मौथल्या दिशन् कथयन् ननन्द मुदितः ॥ २६ ॥ शिञ्जानभ्रमरकुलाकुलाग्रपुष्पा: शाताम्भ:प्रविलयसम्प्लवाभिलीनाः । एते ते सुतनु पुरीजनोपभोग्या दृश्यन्ते नयनमनोरमा वनान्ताः ॥ २७॥ १ अत्राग्रिमे च पद्ये उपजातिश्छन्दः । २ सम्बन्धसामान्यविवक्षयात्र षष्ठी | ३ अनाग्रिमे च ग्रहर्षिणीवृत्तम् । Del
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६०
दिखावट