पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (५२१) नसत्यंन्तं गामीत्यस्मिन्नथें 'अवारपारात्यन्तानुकामं गामी | ५ | २ | ११ इति खः । प्राप्तास्थः लब्धासाथे ॥ १९ ॥ नैवं विरहदुःखेन वयं व्याघानितास्महे । श्रमोऽनुभविता नैवं भवद्भ्यां च वियोगजः ॥ २० ॥ एवं युवां मम प्रीत्यै कल्प्तास्थ: कपिराक्षसा । गन्तुं प्रयतितासाथै प्रातः सह मया यदि ॥ २१ ॥ नैवमित्यादि श्लोकद्वयम् – हे कपिराक्षसौ ! प्रातर्मया सह गन्तुं य 'प्रयतितासाथे यत्नं कर्तास्थः एवं सति युष्मद्विरहदुःखेन वयं न व्याघा तास्महे न पीडिता भवितास्मः । कर्मणि लुट् । चिण्वदिट् । 'सं- योजितास्महे' इति पाठान्तरम् । न संयोजिता भवितास्मः । युजेण्य- न्तस्य चिण्वदि । इ ISसिद्धत्वात् 'णेरनिटि । ६ । ४ । ५१ ।" इति णि- लोपः । भवद्भयां च वियोगजः श्रमः खेदो नानुभविता । अत्रापि चिण्व- । एवं प्रीत्यै युवां कल्प्लास्थ: सम्पादितास्थः । 'लुटि च क्लृपः ॥ १ । ३ । ९३ ।’ इति तङभावपक्ष: 'तासि च क्लृपः।७।२।६०।' इतीट्प्रति- पेधः । क्लृपि सम्पद्यमाने चतुर्थी ॥ २० ॥ ११ ॥ दि उक्तवन्तौ ततो रामं वचः पौलस्त्यवानरौ । अनुग्रहोऽयं काकुत्स्थ गन्तास्वो यत् त्वया सह ॥ २२ ॥ उक्तवन्तावित्यादि---ततोऽनन्तरं पौलस्त्यवानरौ विभीषणसुप्रीवौ रामं वच उक्तवन्तौ । हे काकुत्स्थ ! त्वया सह यदावां गन्तास्व: गमिष्याव: अयम- मुग्रहः प्रसाद इति ॥ २२ ॥ अनुमन्तास्वहे नादां भवन्तं विरहं त्वया । अपि प्राप्य सुरेन्द्रत्वं किं नु प्रत्तं त्वयाऽऽस्पदम् ॥ २३ ॥ अनुमन्तास्वहे इत्यादि ---- किं च सुरेन्द्रत्वं देवेन्द्रत्वं प्रात्पावण्यावां त्वया सह भवन्तमुत्पद्यमानं विरहं वियोग नानुमन्तास्महे किं पुनस्त्वया प्रत्तं दत्तम् । 'अच उपसर्गात्तः |७|४|४७ | आस्पदं राज्यं प्राप्तवन्तौ । अत्र सुतरा- मेव त्वया सह वियोगो न युज्यते । भवन्तं विरहमिति वर्तमानकाल : नानुम- न्तास्वह इति भविष्यत्कालन सम्बध्यमानः साधुर्भवति 'धातुसम्बन्धे प्रत्ययाः |३|४|१|| इति । एतावल्लुडिलसितम् ॥ २३ ॥