पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६५० ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वाविंशः - आख्यातासीत्यादि-हतं शत्रु रावणं लङ्कायामभिषिक्तं विभीषणम् अर्जित मित्रं च सुग्रीवं विशिष्टमाख्यातासि कथयितासि सर्वोश्चास्मान् द्रुतमागामु- कान् आगमनशीलान् ॥ १५ ॥ गन्तारः परमां प्रीतिं पौरा: श्रुत्वा वचस्तव | ज्ञात्वैतत्सम्मुखीनश्च समेता भरतो ध्रुवम् ॥ १६ ॥ गन्तार इत्यादि – त्वद्वचनं श्रुत्वा पौरा: पौरजना: परमां प्रीतिं गन्तारो गमिष्यन्ति । एतन्मदागमनवृत्तान्तं श्रुत्वा सम्मुखीन: प्रतिविम्बाश्रय इव सम्मुखो भूत्वा मामेवागमिष्यति भरतो ध्रुवमसंशयम् ॥ १६ ॥ गते त्वयि पथानेन वयमप्यहितास्महे । लब्धाहेऽहं धृति प्राप्ते भूयो भवति सम्मुखे ॥ १७ ॥ गत इत्यादि ---त्वयि पथा अनेन सयाभिहितेन गते वयमपि अहितास्महे ‘प्रयातास्मः । ‘अहि गतौ ।" भूयश्च पुनरपि भवति त्वयि सम्मुखे प्राप्ते धृतिमहं लब्धाहे प्राप्तोऽस्मि । 'ह एति । ७ । ४ । ५२ ।। इति तासि सका- रस्य हकारः ॥ १७ ॥ गते तस्मिन् गृहीतार्थे रामः सुग्रीवराक्षसौ । उक्तवान् श्वोऽभिगन्तास्थो युवां सह मया पुरम् ॥ १८ ॥ गते तस्मिन्नित्यादि --- तस्मिन् हनूमति गृहीतायें अवगतसन्देशार्थे गते सति रामः सुग्रीवराक्षसावुक्तवान् । युवां मया सह श्वेः अभिगन्तास्थः पुरमयोध्यां गमिष्यथः ॥ १८ ॥ द्रष्टास्थस्तत्र तित्रो मे मातृस्तुष्टाऽन्तरात्मनः । आत्यन्तान सखित्वं च प्राप्तास्थो भरताश्रयम् ॥ १९ ॥ द्रष्टास्थ इत्यादि---तत्र च पुनः पुर्या नोऽस्माकं तिस्रो मातृः कौसल्याद्याः । स्वस्रादित्वान्न ङीप् । शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम् | तुष्टान्तरात्मनः हृष्ट- मानसा: द्रष्टास्थः । भरताश्रयं च भरतनिबन्धनं च सखित्वं मित्रत्वमात्यन्ती- १ अनागते दिने इत्यर्थः । 'अनागतेऽह्नि श्वः' इत्यमरः ।