पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५२६) भट्टिकाव्ये जयमङ्गलासमेते - [ द्वाविंशः - सर्ग: ] यत्रेदं काव्यं कृतं तदर्शयन्नाह -- काव्यमिदं विहितं मया वलभ्यां श्रीधरसुनुरेन्द्रपालि तायाम् । कीर्तिरतो भवतान्नृस्य तस्य प्रेमकरः क्षितिषो यतः प्रजानाम् ॥ ३५ ॥ इति महावैय्याकरणश्रीमट्टिप्रणीते रामचरिते भट्टि- काव्ये द्वाविंशतितमः सर्गः ॥ काव्यमित्यादि - मया भट्टिकविना, इदं रामचरितं काव्यं विहितं कृतम् । श्रीधरसूनुना नरेन्द्रनाम्ना नृपेण पालितायां रक्षितायां वलभ्यां बलभीनामपुर्याम् । अत एव काव्यविधानाय या कीर्तिः सा तस्यैव राज्ञो भवतात् । आशिषि तातङ् । यतः प्रज्ञानां प्रेमकर: प्रेमानुकूलः। आनुलोम्ये टैः ॥ ३५ ॥ इति बलभीवास्तव्यस्य श्रीस्वामिनोः श्रीभट्टिकर्महावैयाकरणस्य कृतौ रावणवधे महातिङन्तकाण्डे लुड्डिलसितनाम्नो नवमपरिच्छेदस्य जटीश्वरज-यदेवापर मनामधेय श्रीजयमङ्गलम्यानेकशास्त्रव्यांख्यानकृतौ जयमङ्गलाख्यायां टीकायां काव्यस्य 'अयोध्या – प्रत्यागमन ' नाम द्वाविंशः सर्गः ॥ ॥ जयमङ्गलकृता टीका समाप्ता ।। समाप्तश्चार्य ग्रन्थः । १ अत्र चित्रचमत्कृति नाम छन्दः, 'चित्रचमत्कृति विद्धि भौ रयौ चेत् ।' इति लक्षणात् ।