पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाः । दर्शितारस्त्वया ताश्च मलयोपत्यकाः शुभाः ॥ ४ ॥ (५१७) - चन्द नेत्यादि – ताश्च पूर्व दृष्टा मलयोपत्येकाः मलयासन्नाः भुवः शुभाः चन्दनद्रुमसंच्छन्नत्वात् । निराकृतहिमश्रथा: तिरस्कृतचन्द्राः । त्वया दर्शि- तारः श्वो द्रष्टव्याः । कर्मणि लुट् । चिण्वदिट् चेति सकारलोपः | हिमं श्रनाति मुञ्चतीति हिमश्रथः चन्द्रः । 'श्रन्थ सेचनप्रतिहर्षयोः" इति कर्मण्य ‘अवोदैधौद्मप्रश्रथहिमश्रथाः । ६ । ४ । ६९ ।' इत्यनुनासिकलोपो निपा- त्यते ॥ ४ ॥ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते । लताः स्तबकशालिन्यो मधुलेहिकुलाकुलाः ॥ ५ ॥ प्रतन्व्य इत्यादि -- विन्ध्ये लता: स्तबकशालिन्य: सकुसुमस्तबकोपेताः मधुलेहिकुलाकुलाः भ्रमरकुलसकुलाः प्रतनुत्वात् । कोमलत्वाच्च । गच्छतस्ते तव स्यदं जवं न सहितार : न सहिष्यन्ते । 'स्यदो जवे | ६ | ४ | २८ ।। इत्यनुनासिकलोपो निपात्यते ॥ ५ ॥ द्रष्टासि प्रीतिमानारात्सखिभिः सह सेविताम् । सपक्षपातं किष्किन्धां पूर्वक्रीडां स्मरन्मुहुः ॥ ६ ॥ द्रष्टासीत्यादि-किष्किन्धां च आरात् नातिदूरे द्रष्टासि | प्रीतिमान् जातप्रीतिः सन् सखिभिभित्रैः सह सेविताम् अनुभूताम् । एवं च कृत्वा पूर्वक्रीडां स्मरन् मुहुः । शेषत्वेनाविवक्षितत्वात् षष्ठी न भवति । सपक्ष- पातं सानुरागमिति क्रियाविशेषणम् ॥ ६ ॥ त्वया सन्दर्शितारी ते माल्यबद्दण्डकावने । उपद्रुतश्विरं द्वन्द्वैर्ययोः क्लिशितवानहम् ॥ ७ ॥ त्वयेत्यादि — माल्यवान् पर्वत : दण्डकावनं दण्डकेतिनाम्ना प्रसिद्ध मरण्य ते त्वया सन्दर्शितारौः । सम् 'दृशिर् प्रेक्षण' कर्म्मणि लुट् । ययोर्माल्यवद्द- ण्डकावन्नयोः व्यवस्थितैः द्वन्द्वैः सीताया : वियोगजन्यैर्दुःखैश्चिरं चिरात् उपद्रुतः अभिभूतः सन् अहं रामः क्लिशितवान् पीडामनुभूतवानिति १ 'उपत्यकादरासत्रा भूमि:' इत्यमरः ।