(५१८) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वाविंशः - भावः । ‘क्लिशः क्त्वानिष्ठयोः |७|२|१०|| इतीट् । 'मृडमृदगुधकुषक्किश- वदवसः क्त्वा ।१|२|७|' इति कित्त्वम् ॥ ७॥ आप्तारौ भवता रम्यावाश्रमी हरिणाऽऽकुलौ । पुण्योदक द्विजाकीर्णो सुतीक्ष्णशरभङ्गयोः ॥ ८ ॥ भाप्तारावित्यादि – सुतीक्ष्णशरभङ्गयो रम्यावाश्रमी हरिणा आकुलौ पुण्यैः पवित्रैः उदकैः द्विजैः पक्षिभिश्च आकीर्णौ भवता आप्तारौ प्राप्तव्यौ ॥ ८ ॥ अतिक्रान्ता त्वया रम्यं दुःखमत्रस्तपोवनम् । पवित्रचित्रकूटेऽद्रौ त्वं स्थातासि कुतूहलात् ॥ ९ ॥ अतिक्रान्तेत्यादि---अत्रेः तन्नाम्नो मुनेश्च तपोवनम् रम्यत्वात् णीयत्वात् त्वया दुःखमतिक्रान्ता अतिक्रमितव्यम् । चित्रकूटे चद्रौपवित्रे पुण्ये कुतूहलात् त्वं स्थातासि ॥ ९ ॥ ततः परं भरद्वाजो भवता दर्शितो मुनिः । द्रष्टारश्च जनाः पुण्या यामुनाम्बुक्षतांहसः ॥ १० ॥ तत इत्यादि -- ततः तदनन्तरं चित्रकूटात् तन्नाम्नः पर्वतात् गच्छता भवता भरद्वाजो नाम मुनिर्दर्शिता द्रष्टव्यः । जनाश्च पुण्या यमुनाया इदं यामुनं तादे- दमम्बु जलं तेन क्षतांहसः यमुनाजलस्य स्नानांत् पानाच क्षपितपापा द्रष्टारो द्रष्टव्या वा चिण्वदि ॥ १० ॥ स्यन्त्वा स्यन्त्वा दिवः शम्भोर्मूर्ध्नि स्कन्त्वा भुवं गताम् । गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम् ॥ ११ ॥ स्यन्त्वेत्यादि --- अथ अनन्तरं या गङ्गा दिवः स्वर्गात् स्यन्त्वा स्यन्त्वा स्रुत्व स्रुत्वा । 'आभीक्ष्ण्ये णमुल च । ३ | ४||२२|| इति चकारातू क्त्वा च आभीक्ष्ण्ये च द्वे भवतः । शम्भोः महेश्वरस्य मूर्ध्नि जटाजूटे स्कन्त्वा गत्वा भुवं पृथिवम् गता प्राप्ता । ‘क्त्वि स्कन्दिस्यन्दोः | ६|४|२१| इत्यनुनासिकलोपप्रतिषेधः । तां पुण्यस्य मूर्तिमिव द्रुतां द्रवरूपेण स्थिताम् गाहितासे स्नातुं विलोडितासे ॥ ११ ॥ १ क्षतम् अंहः पापं येषां ते । 'कलुषं वृजिनैनोऽघमंहोदुरित दुष्कृतम् ।” इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५६
दिखावट