पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वाविंशः - उत्पूर्वादयतेः कर्तर्यच् । . ( ५१६ ) भट्टिकाव्ये जयमङ्गलासमेते- न नीतवत्यः । 'विनीतवत्यः' इति पाठान्तरम् । वृद्धिमुपगच्छन्तं श्रममपंनीतवत्य इत्यर्थः ॥ २३ ॥ इति श्रीजटेश्वरापराभिधश्रीजयमङ्गलसूरिविरचितया जयमङ्गलाख्यया व्याख्यया समलङ्कृते श्रीरामचरितापराभिधे भट्टिकाव्ये चतुर्थे तिङन्तकाण्डे लक्षणरूपेऽष्टमः परिच्छेदः, लक्ष्यरूपे कथानके 'सीतासंशोधनं' नाम एकविंशतितमः सश्च ॥ २१ ॥ इतः प्रभृति लुटमधिकृत्य विलसितमाह -तत्र भविष्यदनद्यतने लुट् | ततो रामो हनूमन्तमुक्तवान् हृष्टमानसम् । अयोध्यां श्वः प्रयातासि कषे भरतपालिताम् ॥ १ ॥ तत इत्यादि- -- ततः सीतासंशोधनानन्तरं रामो हनूमन्तं हृष्टमानसं स्वामि- कार्यस्य निष्पादितत्वात् उक्तवान् । हे कपे ! श्वोदिने अयोध्यां भरतपालितां प्रयातासि गन्तासि । 'तासस्त्योर्लोपः |७|४|५०।' ॥ १ ॥ गाधितासे नमो भूयः स्फुटन्मेघघटावलि | ईक्षितासेऽम्भसां पत्युः पयः शिशिरशीकरम् ॥ २ ॥ गाधितास इत्यादि -- भूयः पुनरपि नभः गाधितासे प्रस्थातासे । 'गाधू प्रतिष्ठालिप्सयोः' इत्यनुदात्तेत् | त्वद्गमनवातात् स्फुटन्त्यः खण्डशो भवन्त्यः मेघघटा वलयो मेघसमुदायपङ्कयो यत्र नभसि । अम्भसां पत्युः समुद्रस्य पयः शिशिरशीकरम् ईक्षितासे द्रष्टासि ॥ ३ ॥ सेवितासे प्लवङ्ग त्वं महेन्द्राद्वेरधित्यकाः | व्युत्क्रान्तवर्त्मनो भानोः सहज्योत्स्नाकुमुद्वतीः ॥ ३ ॥ सेवितास इत्यादि — हे प्लवङ्ग ! भानोरादित्यस्य व्युत्क्रान्तवर्त्मन अत्यु - चत्वादतिक्रान्तमार्गस्य महेन्द्राद्रे: अधित्यकाः उपरिभागान् । कुमुद्वतीः विद्यमानकुमुदाः सह ज्योत्स्नया पश्चाद्विशेषणसमासः । सज्योत्स्ना वा कुमुद्वत्यः कुमुदाकरा यासु अधित्यकासु तास्त्वं सेवितासे अनुभवितासि । पुषेन गच्छतीति कर्तरि खच् ॥ ३ ॥