पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्म: ] तिङकाण्डम् | शिखरशिलान्तरालपरिक्लृप्तजलापसरः सरसफलश्रियं स विततानसुवेलगिरिः ॥ २१ ॥ । सुगन्धयश्च भ्रमरेत्यादि ----वरेण च सुवेलगिरिः सरसाम् अभिनवां फलश्रियं विभूतिं विततान विस्तृतवान् । भ्रमरकुलैराकुला व्याप्ता उल्बणा: सपुष्पास्तरवो यत्र गिरौ | तरुणानाम् अभिनवानां मधूकानां यः सम्भवः तेन पिशङ्गितास्तुङ्गाः शिखाः शिखराणि यत्र | शिखरशिलानामन्तरालेषु परिक्लप्ता जलापसरा जलधारा यत्र | जलमपसरत्येभ्य इति 'ऋोरं | ३|३|५७|' ||२१॥ संवाद्भिः सकुसुमरेणुभिः समीरैरान हुफलधारिभिर्वनान्तैः । इच्योतद्भिर्मधुपटलैश्च वानराणामाप्यानो रिपुवधसम्भवः प्रमोदः ॥२२॥ ( ५१५) -- संवाद्भिरित्यादि – सम्भवत्यस्मादिति सम्भवः । रिपुवधः सम्भवो यस्य प्रमोदस्य स वानराणामाप्यान: वृद्धि गतः । व्यवस्थितविभाषाविज्ञानात् सोपसर्गस्य व्यायते: पीभावो न भवति । 'ओदिश्च । ८ । २ । ४५ ।' इति निष्ठानत्वम् । कैराप्यान: समीरैः सकुसुमरेणुभिः संवाद्भिः वहद्भिः । बनान्तैः फलभरधारिभिः अत एवानम्रैः । मधुकरपटलै: श्च्योताद्भः मध्वि- त्यर्थात् ॥ २२ ॥ आयान्त्यः स्वफलभरेण भङ्गुरत्वं भृङ्गालीनिचयचिता लतास्तरूणाम् । सामोदाः क्षितितलसंस्थितावलोप्या भोक्तॄणां श्रममुदयं न नीतवत्यः ॥ २३ ॥ इति भट्टिकाव्यापरनामधेये रामचरितकाव्ये तिङन्तकाण्डे ऌप्रदर्शनो नाम एकविंशतितमः सर्गः ॥ आयान्त्य इत्यादि ---- तरूणां लताः स्वफलभरेण भङ्गुरत्वं सुभेद्यत्वमाया- न्त्यः गच्छन्त्यः । सामोदाः अतएव भृङ्गालीनिचयचिताः । क्षितितलसं- स्थितैरेव अवलोप्तुं शक्याः । भोक्तॄणां कर्पानां श्रमं चित्तकायक्लेशम् उदयम् वृद्धिं १ अन्न नर्दटकं छन्दः । 'यदि भवतो नजौ भजजला गुरु नर्दटकम् ।' इति वृत्तरत्नाकरोक्तेः । २ अत्राग्रिमे च पद्ये महर्षिणी वृत्तम् । तल्लक्षणं चोक्तं प्राक्...