सर्गः ] तिङ्काण्डम् । प्रधानानुयायित्वाल्लोकस्येति दर्शयन्नाह - प्रावर्तिष्यन्त चेष्टाश्चेदयाथातथ्यवत्तव । - अनुशास्ये त्वया लोके रामावस्यैस्तरां ततः ।। १५ ।। प्रावार्तेष्यन्तेत्यादि - चेद्यदि तव लोकव्यवस्थाकारिणश्चेष्टाः कर्माणि अया- थातथ्यवत् यथा अज्ञाना असमीक्ष्यकारितया प्रवर्तन्ते तद्वत्प्रावर्तिष्यन्त तथा प्रवर्तनात् त्वया अनुशास्ये व्यवस्थायां स्थाप्ये लोके हे राम ! ताश्चेष्टा अवयैस्तराम् अतिशयेन प्रावर्तिष्यन्त न च तव प्रवृत्तां: । अत्र रामचेष्टा- प्रवर्तनं हेतुः लोकचेष्टाप्रवर्तनं च हेतुमत् । तस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते भविष्यति लङ् । अत्रापि परीक्ष्य स्वीकरणलक्षणक्रियायास्तद्विरुद्ध परी- क्षितोपादानानतिपत्तिः । अयाथातथ्यवदिति वतिप्रत्ययान्तं क्रियाविशे षणम् !‘यथातथायथापुरयोः पर्यायेण |७|३|३१|' इति नञः पर्यायेण वृद्धिः ।, प्रावस्यैस्तरामिति 'तिङञ्च |५|३|५६।' इत्यातिशयिकस्तर: । 'किमेत्तिङव्ययघा- दाम्बद्रव्यप्रकर्षे ५॥४|११|' इत्याम् । 'नश्छव्यप्रशान् । ८ । ३७ ।' इति रुत्वं पूर्वस्यानुस्वारः ॥ १५ ॥ प्रणमन्तं ततो राममुक्तवानिति शङ्करः । (५१३) - किं नारायणमात्मानं नाभोत्स्यत भवानजम् ॥ १६ ॥ प्रणमन्वमित्यादि —ततो ब्रह्मवचनानन्तरं शङ्करो महादेवः वक्ष्यमाणम्- वचनं राममुक्तवान्। प्रणमन्तं तमेव राममित्यर्थात् । किन्नाम तत् यथा आत्मानम् नारायणमंजं नित्यं अस्मिन् प्रादुर्भावे भवान्नाभोत्स्यतन बुद्ध- वान् । अपिथविधं कर्म कुर्वन् ज्ञातवानेव । अत्र नारायणानवबोध- क्रियायाः तद्विरुद्धबोधनोपनिपातातिपत्तिः ॥ १६ ॥ तदेव दर्शयन्नाह - कोऽन्योऽकर्त्स्यदिह प्राणान् हप्तानां च सुरद्विषाम् । को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत ॥ १७ ॥ - क इत्यादि - यदि नारायणो न भवान् तदा तस्मादन्यः को नाम सुर- द्विषां राक्षसानां हप्तानां प्राणानकर्त्स्यत् छिन्नवान् । 'कृती च्छेदने' | नैष । विश्वजनीनेषु सर्वलोकहितेषु कर्मसु अनुप्रहलक्षणेषु को नाम प्राघटिष्यत चेष्टितवान्। अत्राच्छंदनक्रियाया अघटनक्रियायाश्च तद्विरुद्धच्छेदनघटनो- १ स्वम् । २ वस्तुदृष्ट्या जन्मानमित्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५१
दिखावट