पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५१२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ एकविंश:- सन् आगम्य त्वां कथमानन्दविष्यत् दर्शनाशीर्वादादिभिरानन्दितवान् गर्हितमेतत् । युक्तमागत्यानन्दयितुमित्यर्थः । 'विभाषा कथमि लिङ् च ।३।३ । १४३ ।। इति कथंशब्दो गर्दा च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भूते ऌङ् । अत्रानन्दनक्रियायास्तद्विरुद्धचारित्र्यक्षतोपनिपाताद- तिपत्तिः ।। १२ ।। प्रणमन् ब्रह्मणा प्रोक्तो राजकाधिपतिस्ततः । नाशोत्स्यन्मैथिली लोके नाचरिष्यदिदं यदि ॥ १३ ॥ प्रणमन्नित्यादि — ततोऽनन्तरं राजकाधिपतिः राजसमूहानां पतिः । राजक राजसमूह: । 'गोत्रोऽक्षोप्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाहुन् । ४।२ । २९ । ' इति वुञ् । रामः प्रणमन् ब्रह्माणमित्यर्थात् । ब्रह्मणा प्रोक्तः मैथिली यदि इदं वह्निप्रवेशनं नाचरिष्यत् नानुष्ठितवती तदा लोके दुराराधे नाशोत्स्यत् न शुद्धाभूत् किन्तु शुद्धा । 'शुध शौचे' दिवादिः । अत्राग्निप्रवेशाचरणं हेतु: अशोधनं च हेतुमत् । तयोर्हेतुहेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ भूते अत्राग्निप्रवेशाचरणक्रियायास्तद्विरु द्धाचरणोपनिपाताद- लङ् । तिपत्तिः ॥ १३ ॥ नामोक्ष्याम वयं शङ्कामिहाधास्यन्न चेद्भवान् । किंवा चित्रमिदं युक्तं भवान् यद्करिष्यत ॥ १४ ॥ - नेत्यादि - - चेद्यदि भवानिह सीतां नाधास्यत् न रोपितवान् । अन्तर्भावि- तोऽत्र ण्यथेः । तदा वयं किं शुद्धा नेति शङ्कां नामोक्ष्याम न मुक्तवन्तः । अस्मिन् वस्तुनि अग्निप्रमाणत्वेन लोको गृह्णीयादित्येवमुक्तवान् । अन्यथा ब्रह्मणः सर्ववेदित्वात् कथं शङ्का स्यात् । अत्राधानं हेतुः शङ्कात्यागश्च हेतु- मान् । अस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते लङ् । अत्रानाधानक्रियाया- स्तद्विरुद्धाघानोपनिपातादतिपत्तिर्गम्यते । अथवा नाहमवकल्पयामि यदीदं पर- गृहोषिताया अग्निप्रवेशशोधनं युक्तं न्याय्यम् तत् भवान् किं चित्रमकरि- ष्यत् विश्मयनीयं कृतवान् । एवं राज्ञः लोकस्य व्यवस्थार्थ विशेषे प्रवर्तनात् 'अनववलृप्त्यमर्षयोरकिंवृत्तेऽपि । ३ | ३ | १४५ ।' इत्यत्रापिशब्दात् किंवृत्त- मनवक्लप्तिश्च लिनिमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते लड् । अत्र चित्रीकरणक्रियाया अतिपत्तिस्तद्विरुद्धस्याचित्रीकरणस्योपनिपातादति- पत्तिर्गम्यते । यदि भवान् परीक्ष्य सीतायाः परिग्रहणमकरिष्यत् लोकोऽपि तथाकरिष्यत् ॥ १४ ॥ ·