सर्गः ] तिङ्काण्डम् | (५११) यास्तद्विरुद्धसाध्वंसे परनिपाताद विपत्तिर्गम्यते । यदि हि त्रासात् म्रियेत दोष एव स्यादित्याह । तन्मरणं लोकेऽस्मिन्नसूयारतौ सत्स्वपि गुणेषु दोषा- विष्करणपरे तस्या अदुष्टाया योषितः वाच्यास्पदं वचनीयाश्रयं मृषा अलीक मेव दुष्टैवेयम् मृषा अलीकमेव येन प्रच्छन्नमृतेति । यदि मरणम- करिष्यत् मृषावचनीयास्पदमभविष्यत् इति क्रियातिपत्तौ योज्यम् । अन्यथा वाक्यमिदमशरीरकं स्यात् इदमवगच्छन्त्यानया प्रच्छन्नमरणं नानुष्ठितम् ॥ ९ ॥ अमंस्थत भवान् यद्वत्तथैव च पिता तव । नागमिष्यद्विमानस्थः साक्षाद्दशरथो नृपः ॥ १० ॥ अमस्यतेत्यादि -- यद्वद्यथा भवानमंस्थत दुष्टेति ज्ञातवान् तथैतद्यदि नान्यथा तदा तव पिता दशरथः साक्षात्प्रत्यक्षो विमानस्थः सन् नाग- मिष्यत् नागतवान् स्यात् । अत्र दुष्टताभवनं हेतुः दशरथागमनं च हेतुमत् । तयोर्हेतुहेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते दुष्टताभवनक्रियायास्तद्विरुद्वादुष्टत्वोपनिपाताद- अत्र लड् तिपत्तिः ॥ १० ॥ नाकल्प्स्यत्सन्निधिं स्थाणुः शूली वृषभवाहनः । अन्वभाविष्यतान्येन मैथिली चेत् पतिव्रता ॥ ११ ॥ नाकल्प्स्पदित्यादि–मैथिली पतित्रता सती चेद्यदि त्वत्तोऽन्येनान्वभा- विष्यत परिभुक्ताभूत् । चिण्वदिट् । तदायं स्थाणुर्महादेवः शूली वृषभवाइनः व्यक्तचिह्नः सन् सन्निधिं सन्निधानं नाकल्प्स्यत् न कृतवान् स्यात् । 'तासि च क्लृपः । ७।२।६०।' इति चकारात् स्ये च परस्मैपदे लङ् | अन्यानुभवनं हेतुः । स्थाण्वागमनं हेतुमत् । पूर्ववत् क्रियातिपत्तौ लृङ् । अत्रान्यानुभवन- क्रियायास्तद्विरुद्धानन्यानुभवनोपनिपातादतिपत्तिः ॥ ११ ॥ । आनन्दयिष्यदागम्य कथं त्वामरविन्दसत् । राजेन्द्र विश्वसूता चारित्र्ये सीतया क्षते ॥ १२ ॥ आनन्दयिष्यदित्यादि - - हे राजेन्द्र ! सीतया चारित्र्ये क्षते कुत्सिते कृते सति एष धाता ब्रह्मा विश्वसूः सर्वस्य जगतः स्रष्टा अरविन्दसत् कमलासन: १ भये । ‘भीतिर्भीः साध्वसं भयम् |' इत्यमरः | २ वृषभेण धर्मेण तद्रूपेण नन्दीश्वरेण बाह्यत इति तथोक्त इति केचित् | ३ प्रत्यक्षभूतः
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४९
दिखावट