पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५१०) भट्टिकाव्ये जयमङ्गलासमेते- [ एकविंश:- हेतुः । लोकपालागमनं हेतुमत् । ततो हेतुहेतुमत्त्वे लिनिमित्ते क्रिया- प्रतिपत्तौ सत्यां भूते लड् । अत्र चापलाचरणक्रियायास्ताद्वरुद्धाचापलाप- निपातादतिपत्तिः ॥ ७ ॥ अन्यच्च योषित्सामान्येन नेयं द्रष्टव्येति दर्शयन्नाह - आश्चर्यं यच्च यत्र स्त्री कृच्छ्रेऽवत्यैन् मते तव | त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम् ॥ ८ ॥ - आश्चर्यमित्यादि – यच्च यत्र या भवति स्त्री यत्तव कृच्छे मते सङ्कटे- ऽभिप्राये अवर्त्स्यत् प्रवृत्तिमती तदाश्चर्य चित्रमेव वर्तते । नान्येति भावः । ‘चित्रीकरणे च । ३ । ३ | १५० ।' इत्यत्र ' यच्चयत्रयोः । ६ । ३ । १४८।१ इत्यनुवर्तते । यच्चयत्रशब्द उपपदे गम्यमानं चित्रीकरणं लिनिमित्तं तस्मिन् लिङ्निमित्ते क्रियाऽतिपत्तौ सत्यां भूते लङ् । अत्र कृच्छ्राभिप्रायानुवर्तन- क्रियायास्तस्यां योषिदनुवर्तनं सामग्र्यभावाद्गम्यते । अन्यच्च स्वभावत एव योषित् कातरा भवति, ततश्च परगृहावस्थित्या दुष्टेति क्रोधादहमवक्षिप्तंति त्रासादस्यां विपन्नायां प्रच्छन्नविषयं गतःयां सत्यां किं किमालप्स्यथाः फलं नाहमवकल्पयामि । किं नाम तत्र फलं यदाप्स्यसि नैवेत्यर्थः । 'अनव- क्लृप्त्यमर्षयोरकिंवृत्तेऽपि | ३ | ३ | १४५ |' इत्यत्रापिशव्दात् किंवृत्तमनवक्ल- तिश्च लिङो निमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्तौ सत्यां भविष्यति लङ् । अत्र फलप्राप्तिक्रिया यास्तद्वदन्य सामग्र्यभावात् गम्यते। 'किंकिलालप्स्यथा: फलम् ' इति पाठान्तरं तदयुक्तं 'किंकिलास्त्यर्थेषु । ३ । ३ । १४६ ।' इत्येतस्य लिनिमित्तत्वाभावात् ॥ ८ ॥ , अथवा नाहं दुष्टेत्यवगच्छन्त्या योषित खास एवं नास्ति येन गर्हित मरणमाच- रेदिति दर्शयन्नाह -- यत्र यच्चामरिष्यत्स्त्री साध्वसाद्दोषवर्जिता । तदसूयारतौ लोके तस्या वाच्यास्पदं मृषा ॥ ९ ॥ यत्रेत्यादि-गर्हितमेतत् यच्च यत्र या भवति स्त्री दोषवर्जिता शुद्धचरि- त्रापि साध्वसात् पतित्रासादमरिष्यत् मृताभूत् नैवेत्यर्थः । अदृष्टायाः साध्वसाभावात् । गर्हायामित्यत्र यच्चयत्रशब्द उपपदं गर्दा च लिनिमित्त तस्मिन् लिङ्निमित्ते क्रियातिपत्तौ सत्यां भूते वा लङ् । अत्र मरणक्रिया-