पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | (५०९) त्वयेत्यादि — किं नाम तच्छीलं तच्चरित्रं यदस्याः शलिं चिरं कालं संवसता एकत्र सहवासं कुर्वता त्वया नाद्रक्ष्यत नोपलब्धमेव चेतोधर्मत्वान्नोपलब्धमिति चेत् किं वा नाम चेष्टाः शीलनिबन्धनाः क्रिया: बहुनापि कालेन त्वया नाद- शिष्यन्त न दृष्टा अभूवन् । अपि तु दृष्टा एव । ‘किंवृत्ते लङ्ऌटौ |३|३|१४४|' इति किंशब्दो विभक्त्यन्तो गर्दा च लिङनिमित्तं तत्र गयामित्येतदनुवर्तते तस्मिन् लिनिमित्त क्रियातिपत्तौ भूते लङ् । कर्मण्येव चिण्वदिट् । अत्र शीलानुपलब्धिक्रियायाश्च तद्विरुद्धचि- रवासोपनिपातांदतिपत्तिर्गम्यते । तथाहि 'शीलं संवसता ज्ञेयं तच्च कालेन भूयसा' इति ॥ ५ ॥ यावज्जीवमशोचिष्यो नाहास्यश्चेदिदं तमः । भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम् ॥ ६ ॥ - यावदित्यादि — अन्यच्च लोकस्याज्ञानमूलं परगृहोषितेत्येताव तैवाप रिशुद्धेत्यज्ञानमुत्पन्नमिदं तमः अज्ञानं यदि त्वं नाहास्यः न त्यक्ष्यसि तदास्या वैलक्षण्येन मरणादवश्यं यावजीवमशोचिष्यः शोकमेष्यसि । अतो मयाभिधीयमानः स्वयं च विमृशन् परिशुद्धा हीयमित्यवेहि येन न शोचिष्यास । अत्र भविष्यदज्ञानात्त्यागो हेतुः । यावज्जीवशोचनं • हेतुमत् । तयोर्हेतुमत्त्वे लिङनिमित्ते क्रियातिपत्तौ सत्यां भविष्यति नित्यं लङ् । अत्राज्ञानत्यागक्रियायास्तद्विरुद्धोपदेशकत्वमर्षित ज्ञानोत्पादानपाता- दतिपत्तिर्गम्यते। अन्यच्च अभूतवस्तूत्पादकसूचक उत्पातो भवति न च तथाभूतोऽस्तीति दर्शयन्नाह । यदीयमक्षोभिष्यत् दुष्टचित्ताभूत् तदा भानुरपि क्ष्मां पृथ्वीमपतिष्यत् गतोऽभूत् । अत्रापि क्षोभो हेतुः भानुप- तनं हेतुमत् तयोर्हेतुहेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते लड् | अत्र क्षोभक्रियायास्तद्विरुद्धाक्षोभोपनिपातादतिपत्तिः ॥ ६ ॥ . अन्यच्च इति दर्शयन्नाह - समपत्स्यत राजेन्द्र स्त्रैणं यद्यत्र चापलम् । लोकपाला इहायास्यंस्ततो नामी कालिद्रुहः ॥ ७ ॥ सत्येन सवित्रा लोकपाला अदुष्टाचेत्तेषु संनिधीयन्ते समेत्यादि - स्त्रीणामदं खैणं चापलं चारित्र्यबन्धनं तदत्र सीतायां है राजेन्द्र ! समपत्स्यत संपन्नमभूत् । ततः कारणादमी लोकपालाः एव मादयो मूर्ति- मन्तः कलिद्रुहः पापस्य द्रोग्घार: इह नायास्यन् नांगता अभूवन | चापलमत्र ।