पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ विं (५०६) भट्टिकाव्ये जयमङ्गलासमेते- राघवस्य मतेनाथ लक्ष्मणेनाचितां चिताम् | दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥ ३५ ॥ राघवस्येत्यादि-- ---अथ राघवस्य मतेनानुज्ञातेन तस्य |३|३|६७|' इति षष्ठी । 'मतिबुद्धिपूजाऽर्थेभ्यश्च | ३ | २ | १८८ ।। इति वर्तमाने क्तः । तस्य वा मतेनानुज्ञया चितामाचितां रचितां दृष्ट्वा प्रदक्षिणी- G वर्तमान कृत्य सीता रामं प्रगदिता वचो गदितुं प्रवृत्ता ॥ ३५ ॥ प्रवपाणि वपुर्वक रामाहं शङ्किता त्वया | सर्वे विदन्तु शृण्न्वतु भवन्तः सप्लवङ्गमाः ॥ ३६॥ प्रवपाणीत्यादि-येऽत्र सन्निहिता देवादयः ते सर्वे सप्लवङ्गमा वानरैः सह भवन्तः विदन्तु चेतसा जानन्तु । शृण्वन्तु श्रोत्रविषयीकुर्वन्तु मद्वचनम् । हे राम ! त्वया दुष्टेति शङ्किता अहं वह्नौ वपुः शरीरं प्रव पाणि नियोगतः प्रक्षिपाणि । 'लोट् च |३|१६२|' इति निमन्त्रणे लोट् ।‘आनि लोट् | ८|४|१६' इति णत्वम् ॥ ३६ ॥ मां दुष्टां ज्वलितवपुः पुषाण व संरक्ष क्षतमलिनां सुहृद्यथा वा । एषाहं ऋतुषु वसोर्यथाज्यधारा त्वां प्राप्ता विधिवदुदीर्णदीप्तिमालम् ॥३७ इति महावैयाकरण श्रीमट्टिप्रणीते रामचरिते तिङन्त- काण्डे लोट्प्रदर्शनो नाम विंशतितमः सर्गः ॥ २० ॥ मामित्यादि--हे वह्ने ! यद्यहं दुष्टा तदा ज्वलितवपुः ज्वलितशरीरः सन् । मित्त्वाभावपक्षे रूपम् । प्लुषाण देहं मर्त्यलोकात् मोचय | यथा वा क्षत-- मलिनां विशुद्धां सुहृदिव संरक्ष वा । आमन्त्रणे कामचारकरणे लोट् । एषाहूं त्वां विधिवत् शास्त्रानुसारं सम्यक् प्राप्ता ऋतुषु वसो: राज्ञः आज्यधारेव । उद्दीर्णदीप्तिमालम् उद्गतज्वालासमूहं त्वांमिति ॥ ३७ ।। इति श्रीश्वरापराधेिय - श्रीजयमङ्गलसूरिंविरचितया जयमङ्गला- ख्यया व्याख्यया समलंकृते श्रीभट्टिप्रणीते रामचरिते काव्ये चतुर्थे तिडन्त - काण्डे लक्षण-रूपे सप्तमः परिच्छेदः, लक्ष्यरूपे कथानके 'सीताप्रत्याख्यानं' नाम विंशतितमः सर्गश्च ।। २० ।। १ 'प्रहर्षिणी' वृत्तम् ‘म्रौ श्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति वृत्तरत्नाकरोकेः !