पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] तिङ्काण्डम् । एकविंशः सर्गः । इतः प्रभृति ऌङमधिकृत्य विलसितमाह - तत्र लिनिमित्ते लङ क्रियातिप- चौ भविष्यति भूते च | हेतुहेतुमतोर्लिङित्येवमादिकं लिङो निमित्तं क्रिया- तिपत्तिश्च । कुतमिद्वैगुण्यात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः । वैगुण्यं च विधुरप्रत्ययोपनिपातात् सामग्र्यभावाच्च द्रष्टव्यम् । (५०७) समुत्क्षिप्य ततो वह्निमैथिली राममुक्तवान् | काकुत्स्थ दयितां साध्वीं त्वमाशङ्किष्यथाः कथम् ॥ १ ॥ समुत्क्षिप्येत्यादि-ततोऽनन्तरं मैथिली समुत्क्षिप्य इस्ताभ्यामाकाशे धृत्वा वह्निदर्हेवान् राममुक्तवान् । हे काकुत्स्थ ! साध्वीं पतिव्रतामपि दयिताम् असाध्वीति त्वं यदाशङ्किष्यथा शङ्कितवानास तत्कथं गर्हितमेतत् न युक्तमाशङ्कितुमित्यर्थः । 'विभाषा कथमि लिङ च |३|३|१४३ ।' इति । अत्र कथंशब्दो गर्हायां च लिङो निमित्तम् । यतस्तत्र गर्हायामित्यनुवर्तते । तस्मिन् लिनिमित्ते क्रियातिपत्तौ लङ् भविष्यतीत्यंधिक्रियते । अत्रासाधुत्व- क्रियायाः तद्विरुद्धसाधुत्वाभियोगोपनिपातातिपत्तिर्गम्यते ॥ १ ॥ तदेव साधुत्वं दर्शयति -- नाभविष्यदियं शुद्धा यद्यपास्यमहं ततः । न चैनां यक्षपातो मे धर्मादन्यत्र राघव ॥ २ ॥ नेत्यादि — यद्यहमेनां नैवापास्यं नैव रक्षितवान् ततोऽरक्षणादियां शुद्धा नाभविष्यत्, न भूता । येनैव मया रक्षिता तेनैवेयं शुद्धेति भावः। ‘हेतुहेतुमतोर्लिङ् | ३ | ३ | १५६ ।' इत्यतः हेतुर्हेतुमांश्च लिङो निमि- तम् । तत्र पालनस्य परिशुद्धेश्च हेतुहेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं लङ् । तत्र 'वोतायोः | ३ |३|१४१।' इति विकल्पेना- धिक्रियते । अत्रापालनोपनिपातादतिपत्तिर्गम्यते । तदतिपाताद्धेतुमतोऽपि पक्षपातात् त्वयैवमाचरितमिति चेदाह । हे राघव ! धर्मादन्यत्र अधर्मे न मे पक्षपातोऽनुरागः ॥ २ ॥ इदानीं सीतारावणयोर्यञ्चेष्टितमासीत् तच्चानेनावधार्य प्रकाशयन्नाह -- अपि तत्ररिपुः सीतां नार्थयिष्यत दुर्मतिः । क्रूरं जात्ववदिष्यच्च जात्वस्तोष्यच्छूियं स्वकाम् ॥ ३ ॥