पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ]. तिङ्काण्डम् । (५०५) अस्खलितमवेहि जानीहि । अत्र प्रार्थनायां लोट् । पूर्वत्र क्रियासमभिहारे तस्य चात्मनेपदसम्बन्धिनः स्वादेशः ॥ ३१ ॥ रसान् संहर दीप्यस्व ध्वान्तं जाहे नभो भ्रम ! इतीहमानस्तिग्मांशो वृत्तं ज्ञातुं घटस्व मे ॥ ३२ ॥ रखानित्यादि - - हे तिग्मांशो ! त्वमपि अहं रसान् भौमान् संहर संहरा- मीति | दीप्यस्व दीप्ये | ध्वान्तं जहि हन्मि । नभो भ्रम भ्रमामीत्येवमभि- प्रायः । ईहमानः जगत्यर्थक्रियासु चेष्टमानः । मम वृत्तं चारित्रं ज्ञातुं घटस्व यतस्व । अत्र प्रार्थनायां लोट् । पूर्वत्र 'समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ ।। इति तस्य च यथायोगं हिस्वादेशः । ईहमान इति 'समुच्चये सामान्य- वचनस्य । ३ । ४ । ५ ।' इत्यनुप्रयोगः । संहरेत्यादीनामीहतेः सामान्य वचन- प्रयोगात् ॥ ३२ ॥ स्वर्गे विद्यस्व भुव्यास्व भुजङ्ग निलये भव । एवं वसन् ममाकाश संबुध्यस्व कृताकृतम् ॥ ३३ ॥ स्वर्ग इत्यादि-त्वं चाकाश ! स्वर्गे विद्यस्व अहं विद्ये । भुवि आस्व आसे । भुजङ्गनिलये पाताले भव भवामीत्येवमभिप्रायः सर्वत्र वसन् तिष्ठन् कृताकृतं युक्तायुक्तं बुध्यस्व अवगच्छ । अत्र प्रार्थनायां लोट् । पूर्वत्रं 'समुच्चयेऽन्यतरस्याम् । ३।४ । ३ ।। इति तस्य मम च यथा- हिस्वादेशः वसन्निति 'समुच्चये । योग सामान्यवचनस्य C ३। ४ । ५ ।' इत्यनुप्रयोगः । विद्यमानादीनां वसतः सामान्यवचन- स्यानुप्रयोगात् ॥ ३३ ॥ एवं पृथिव्यादीनि महाभूतानि कथायत्वा लक्षणमाह- चितां कुरु च सौमित्रे व्यसनस्यास्य भेषजम् । रामस्तुष्यतु मे वाद्य पापां लष्णातु वानलः ॥ ३४ ॥ चितामित्यादि--- हे सौमित्रे ! व्यसनस्यास्य मिथ्यादूषणस्य भेषजं प्रति- क्रियां चितां कुरु । अत्र विधौ लोट् । मम अग्नौ विशुद्धाया रामो नियोगतस्तु । अनलो वा मां पापां नियोगतः प्लुप्णातु दहतु । दहन् मर्त्यलोकान्मोचयत्वित्यर्थ: । 'लोट् च ३ | ३ | १६२ ।। इति निमन्त्रणे . लोट् । 'लुष प्रुष स्नेहनमांचनपूरणेषु' इति त्रयादिः, मोचने द्रष्टव्यः' अनेकार्थत्वाद्दाहे ॥ ३४ ॥ १ 'नभोऽन्तरिक्षं गगनम् ।' इत्यमरः । ---