पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५०४) भट्टिकाव्ये जयमङ्गलासमेते- [ विश:- त्वयि भर्त्तरि हृतम् अपि तु त्वेतस इत्यादि-मे मम सीतायाश्चेतसो वृत्तिरात्मव्यापारः तिष्ठति अनन्यमनस्कत्वात् । रक्षसा रावणेन हृताया मम न सर्व शरीरमेकं हृतम् । नैवेदं मिथ्या । तथाहि हे महाभूताधिष्ठानाः सम्यञ्चः । सर्वत्र वर्तमानाः अञ्चन्तीति क्विप् । अञ्चतावप्रत्यये 'समः समि । ६ । ३ । ९३ ।' इति सम्यादेशः । एते मदर्थिताः मम वचः सत्यं विदांकुर्वन्तु अवगच्छन्तु । जानन्तु । अत्र प्रार्थनायां लोट् । विदांकुर्वन्त्विति निपातनम् ॥ २८ ॥ प्रत्येकं प्रार्थनामाह- त्वं पुनीहि पुनीहीति पुनन् बायो जगत्रयम् | चरन् देहेषु भूतानां विद्धि मे बुद्धिविप्लवम् ॥ २९ ॥ त्वं पुनीहीत्यादि --हे वायो ! पुनीहि पुनीहीति जगत्रयं त्रिलोकीं पुनः पुनः पुनामि भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्रयं पुनन् भूतानां देहेषु चरन् मम बुद्धिविलवं बुद्धेरन्यथात्वं विद्धि अवगच्छ । अत्र प्रार्थनायां लोट् । पूर्वत्र 'क्रियासमभिहारे लोइ लोटो स्वौ वाहि च तध्वमोः | ३ | ४ | २ || इति लोट् । तस्य परस्मैपदसम्बन्धी हिरादेशः । क्रियासमभिहारे द्विर्वचनम् । पुनन्निति यथाविध्यनुप्रयोगः । पूर्वस्मिन्नित्यनेन पुनातेरनुप्रयोगः । तत्र हि क्रियासमुच्चयाभावात् ॥ २९ ॥ खमट द्यामटाटोवमित्यटन्त्योऽतिपावनाः | यूयमापो विजानीत मनोवृत्तिं शुभां मम ॥ ३० ॥ खमित्यादि ---- यूयमापोऽतिपावना: अतिपवित्राः खमट द्यामट उर्वीमट इति वयमन्तरिक्षमटाम देवलोकमटाम भूलोकमटाम इत्येवमभिप्रायः । सर्व- त्राटन्त्यो मम शुभां चित्तवृत्ति विजानीतेति । अत्र प्रार्थनायां लोट् । पूर्वत्र न्तु आकाशादिकारकभेदात् अनेकाटनक्रियासमुच्चयः । ततश्च 'समुच्चयेऽन्य- तरस्याम् । ३ । ४ । ३ ।' इति लोट् । अटेति समुच्चये सामान्यवचनस्येत्यनु- प्रयोगः । आकाशाद्युपगामिनीनामटनक्रियायाः सामान्याया अनुप्रयो- गात् ॥ ३० ॥ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे । अवेद्दि मम चारित्रं नक्तंदिवमविच्युतम् ॥ ३१ ॥ जगन्तीत्यादि----त्वं वसुन्धरे ! धत्स्व धत्स्वेति अहं पुनः पुनर्दघे भृशं वा दूध इति एवमभिप्राया जगन्ति दूधती मम चारित्रं नक्तंदिवमविच्युतं