पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | ( ५०३ ) विध घटधात लोट् । अतोऽन्यस्मै हृदयं देहि चित्तं परस्मै देहि पस्मिन यस्मिन् कस्मिंश्चिदभिमतेऽनुरक्ता भवेति भावः । वयम् अनभिमते विषये नः घटामहे | निमन्त्रणे लोट् ॥ २४ ॥ यथेष्टं चर वैदेहि ! पन्थानः सन्तु ते शिवाः । कामास्तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्गताम् ॥ २५ ॥ यथेष्टमित्यादि–यथेष्टं चर यथेष्टचारिणी भव । अत्र विधौ लोट् | तंत्र च यथेष्टं चरन्त्यास्तव पन्थानो मार्गी: शिवाः निर्विघ्नाः सन्तु भूयासुः । अन्न आशिषि लोट् । किं च कामा अभिलाषास्तवान्यत्र तायन्तां स्फीता भवन्तु अत्राप्याशिषि लोट् | यथेष्टचारित्वात्किमर्थं करिष्यतीति मद्वतां विशङ्कां भयं त्यज त्यक्ष्यसि । अत्र विधौ लोट् ॥ २५ ॥ ततः प्रगदिता वाक्यं मैथिलाभिजना नृपम् । स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम् ॥ २६ ॥ तत इत्यादि -- ततस्तद्वचनानन्तरं पतिवचनोत्तरमित्यर्थः मैथिलाभिजन मैथिलवंशोद्भवा सीता नृपं वाक्यं प्रगदिता गदितुं प्रवृत्ता । 'आदिकर्मणि क्तः कर्त्तरिच । ३ । ४ । ७१ |' इत्यारम्भे द्योत्ये क्तः | स्त्रीसामान्येन स्त्रीति कृत्व या तव मय शङ्का इयं सती न वेति सा विमुच्यताम् । मिथ्यात्वात् । अऋ प्रार्थनायां लोट् ॥ २६ ॥ दैवाद्विभीहि काकुत्स्थ जिद्दीहि त्वं तथा जनात् । मिथ्या मामभिसङ्क्रुध्यन्नवशां शत्रुणा हताम् ॥ २७ ॥ दैवादित्यादि--अन्यच्च हे काकुत्स्थ राम ! अवशां पराधीनां शत्रुणह हृताम् । मिथ्या अभिसंक्रुध्यन् अलकेन । 'क्रुध-द्रुहोरुपसृष्टयोः कर्म । १ ॥ ४ । ३८ ।' इति कर्मसंज्ञा । दैवात् अनिष्टफलात् बिभीहि भीतो भव । हेर- पित्त्वात्कित्त्वे गुणो न भवति । इतश्च जनादिमं जुनं वीक्ष्य जिह्वीहि लज्जस्व 'ल्यब्लोपे कर्म्मण्यधिकरणे च' इति पञ्चमी । विधौ लोट् ॥ २७ ॥ त्वय्य संक्रान्तायां मम कीदृशं भयं लज्जा चेति चेत्तदाह - चेतसस्त्वयि वृत्ति में शरीरं रक्षसा हृतम् । विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥ २८ ॥ --- १ 'लोट् च'३|३|१६२' इति शास्त्रेण | २ मैथिलोऽभिजनः कुलं यस्याः । 'सां कुले-- Sण्यभिजनो जन्मभूम्यामपि' इत्यमरः । ३ न वशः इच्छा, स्वाभिप्रायानुकूल प्रवृत्तिर्यस्याः सा | 'वशः कान्तौ' इत्यमरः ।