पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५०२ ) भट्टिकाव्ये जयमङ्गलास मेते- प्राप्त चारित्र्यसन्देहस्त तस्ता मुक्तवान् नृपः । इच्छा मे नाददे सीते त्वामहं गम्यतामतः ॥ २१ ॥ प्राप्तेत्यादि -- ततोऽनन्तरं नृपो रामः 'रावणः किमस्यां खण्डितचारित्र्य- शीलो न वा' इति प्राप्तचारित्र्य सन्देहस्तामुक्तवान् । किमित्याह ---- हे सीते! मे ममेयमिच्छा यत्त्वामहं नाददे न गृह्णामि । 'इच्छार्थेषु लिङ्लोटौ ।३।३ । १५७ ।” इति लोट् । अतोऽनिच्छातः कारणाद्यथेष्टं गम्य- ताम् ॥ २१ ॥ किमिति नेच्छति चेदाह ---- [ विंश:- रावणाङ्ग परिश्लिष्टा त्वं हल्लेखकरी मम । मतिं बधान सुग्रीवे राक्षसेन्द्रं गृहाण वा ॥ २२ ॥ रावणेत्यादि----रावणाङ्कपरिश्लिष्टा हरणसमये रावणोत्सङ्गे स्थिता सती परिश्लिष्टा परिमृदितवती त्वं मम हृल्लेखकरी चेतःपीडनशीला । 'कृञो हेतुताच्छील्यानुलोम्येषु । ३ । २ । २० ।। इति ट: । 'हृदयस्य हल्लेखयदण्- लासेषु । ६ । ३ । ५० ।' इति हृदादेशः । कमहं शरणं यास्यामीति चेदाह --- सुग्रीवे मतिं बधान बनीया: उत्पादय, राक्षसेन्द्रं विभीषणं वा अनुगृहाण स्वीकुरु ॥ २२ ॥ अशान भरताद् भोगान् लक्ष्मणं प्रवृणीष्व वा । कामाद् वा याहि मुच्यन्तामाशा रामनिबन्धनाः ॥ २३ ॥ अशानेत्यादि --- भरताद्वा भोगानशान भुङ्क्ष्व | सर्वत्र 'हल: अः शानौ | ३ | १ | ८३ ।। इति शानच् । लक्ष्मणं प्रवृणीष्व वा अङ्गी- कुरु । 'वृञ् वरणे' इत्यस्य रूपम् । 'प्वादीनां ह्रस्वः । ७ ।३ । ८० ।। स्वेच्छया वा याहि भवत्यै यत्र रोचते तत्र गम्यताम् | रामनिबन्धनाः पुन- रपि रामो मे पतिर्भूयादित्याशा: मुच्यन्तां त्यज्यन्ताम् ॥ २३ ॥ किमिति चेदाह --- क्व च ख्यातो रघोर्वेशः व त्वं परगृहोषिता । अन्यस्मै हृदयं देहि नाऽनभीष्टे घटामहे ॥ २४ ॥ व चेत्यादि-परिशुद्धत्वात्सर्वत्र ख्यातः लोके विदितो रघोर्वेशः क । कच त्वं परगृहोषिता जातकलकत्वात् । द्वयमप्येतद्दूरं भिन्नम् । सर्वत्र १ 'रुब्यर्थानां प्रीयमाणः १|४|३३' इति चतुर्थी । Evon