पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 तिङ्काण्डम् | (५०१) इति च वर्तते । प्राप्तकालतायां लोट् | राघवसन्निधिं गन्तुं क्षितेः स्व- मिनी भवितुं प्राप्तकाला देवी । अन्यथा कालातिक्रमे मयि विरक्तेति रामो विरज्यते । अन्यच्च इयमस्माकमाशंसा । त्वं राजपत्नीनियोगस्थं महादे- ब्याज्ञाकरणतत्परं पुरीस्थमयोध्यावस्थितं जनम् अनुशाधि विधेयकुरु । 'आशिषि लिङ्लोटौ । ३ । ३ । ११३ ।' इति आशिषि लोट् । 'शा हौ । ६। ४।३५ ।' इति शादेशः । तस्य समानाश्रयत्वादसिद्धत्वे 'हुझभ्यो हेधिः |६|४|१०१' ॥ १७ ॥ उत्तिष्ठस्व मते पत्युर्यतस्वालङ्कृतौ तथा । प्रतिष्ठस्व च तं द्रष्टु द्रष्टव्यं त्वं महीपतिम् ।। १८ ।। उत्तिष्ठस्वेत्यादि--तस्मात्प्रार्थयेऽहं पत्युर्मते अभिप्राये मत्समीपमागन्त- व्यमिति उत्तिष्ठस्व तदर्थ घटस्व । 'उदोऽनूर्ध्वकर्मणि | १ | ३ | २४ ।। इति तङ् । तथा अलङ्कृतौ अलङ्करणे यतस्व यत्नं कुरु । लज्जया कदा- चिन्नोत्सहेतेति पुनःपुनरभिधानम् अविरुद्धम् | यथा स्नाहीत्यादि भूषया- समिति मन्यते तेन वारद्वयमुक्तमेवम् अलङ्कृत्य त्वं महीपतिं द्रष्टव्यं दर्श- नाम् । 'अर्हे कृत्यंतृचश्च | ३ | ३ | १६९ ।। इति अवश्यद्रष्टव्ये वा आवश्यके 'कृत्याश्च । ३ । ३ । १७१ ।' इति संद्रष्टुं प्रतिष्ठस्व गच्छ प्रार्थनायां लोट् । 'समवप्रविभ्यः स्थः | १||३|२२|' इति तङ् ॥ १८ ॥ अनुष्ठाय यथादिष्टं नियोगं जनकात्मजा | समारूढवती यानं पट्टांशुकवृतानना ॥ १९ ॥ अनुष्ठायेत्यादि--श्लोकत्रयम् एवमुक्ता भर्तुर्यथोद्दिष्टं नियोग स्नानादिकम- नुष्ठाय कृत्वा जनकात्मजा मां कश्चिन्माद्राक्षीदिति पट्टांशुक्रवृतानना यानं शिबिकामारूढवती पत्युरन्तिकं च गत्वा यानादवतीर्येत्यर्थात् ॥ १९ ॥ लज्जानता विसंयोगदुःखस्मरणविहला । सास्त्रा गत्वान्तिकं पत्युदींना रुदितवत्यसौ ॥ २० ॥ लज्जानतेत्यादि-लज्जया आनता अधोमुखी विसंयोगदुःखस्य पूर्वानुभूतस्य स्मरणेन विहला शोकाकुला सास्रा अश्रुपूर्णनयना दीना सा पत्युरन्तिकं बरामस्य समीपं गत्वा सीता रुदितवती दुःखं प्रकटितवती ॥ २० ॥ १ स्वमस्या अस्तीति तथोक्ता, अधिष्ठात्रीत्यर्थः । स्वामिन्नैश्वर्ये | ५ | २ | १२६ ।। इतिं साधुः ।