पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५०० ) भट्टिकाव्ये जयमङ्गलासमेते- [ विंश:- अस्मात्कालादूर्ध्वं कालं स्ववेश्मेनि अयोध्यायाम् अधियुक्ता त्वं भवतात् भूयाः ‘तुह्योस्तातङ्काशिष्यन्तरस्याम् | ७ | १|३५|| इति तातङ् ॥ १३ ॥ दीक्षस्व सह रामेण त्वरितं तुरगाध्वरें | दृश्यस्व पत्या प्रीतेन प्रीित्या प्रेक्षस्त्र राघवम् ॥ १४ ॥ दीक्षस्वेत्यादि – तुरगाध्वरे तुरगसाध्येऽध्वरे । शाकपार्थिवादित्वान्म- ध्यमपदलोपः । अश्वमेधे रामेण सह त्वरितं शीघ्रं दीक्षस्व दीक्षिता भुयाः भव । आशिषि 'अशिषि लिङ्लो |३|३|१७३ |' इति लोट् | प्रीतेन पत्या इह कर्मणि लोट् । प्रीता च सती राघवं रामं त्वं प्रेक्षस्व पश्य इहाप्याशिषि लोट् ॥ १४ ॥ दृश्यस्व दृष्टा भव । अयं नियोगः पत्युस्ते कार्या नात्र विचारणा | भूषयाऽङ्गं प्रमाणं चेद्रामं गन्तुं यतस्व च ॥ १५ ॥ अयमित्यादि- इ-तव पत्युः रामस्यायं नियोगः आज्ञा यत्कृतः स्नानादि- व्यापारः । अत्रास्मिन्ननुष्ठेये वस्तुनि विचारणा न कार्या किमवें न वेति । संशयो न विधेयः । एतत्प्रमाणं चेत् भूषयांङ्गं स्नानादिपूर्वकमवयवमलङ्कुरु ॥ रामं गन्तुं यतस्व चेष्टस्व ॥ १५ ॥ मुदा संयुहि काकुत्स्थं स्वयं चाप्नुहि सम्मदम् । उपेह्यर्ध्वं मुहूर्तात्त्वं देवि राघवसन्निधिम् ॥ १६ ॥ मुदेत्यादि — गत्वा च काकुत्स्थं मुदा हर्षेण संयुहि मिश्रय | 'युमिश्रणामि- श्रणयोः' तत्र गमनेन स्वयं च संमंद हर्ष प्राप्नुहि 'प्रमदसमदी हर्षे | ३|३- ६८ | सर्वत्र प्रार्थनायां लोट् । हे देवि ! अस्मान्मुहूर्तादूर्ध्वं राघवस- न्निधिम् । राघवः सन्निधीयते यस्मिन् प्रदेशे इति 'कर्मण्यधिकरणे च |३|३|-- ९३|' इति किप्रत्ययः । तं त्वमुपेहि गच्छ ॥ १६ ॥ ऊर्ध्वं मुहूर्तादहोऽङ्ग स्वामिनी स्म भव क्षितेः । राजपत्नीनियोगस्थमनुशाधि पुरीजनम् ॥ १७ ॥ ऊर्ध्वमित्यादि-- --तथा अह्नः मुहूर्तादूर्ध्वं क्षितेः स्वामिनी भव स्म । अङ्गेति सम्बोधनपदम् । अत्र 'स्मे लोट् ||३||३||१९६५ |' इत्यनेन प्रैषे लोट् । तत्र हि 'औषातिसर्गप्राप्तकालेषु कृत्याश्च | ३ | ३ | १६३ ।। इति 'अर्ध्वमाहूर्तिके १ निजप्रासाद इति भावः । २ 'अङ्गं प्रतीकोऽवयवोऽपघनः' इत्यमरः के 'प्रमोदामोदसम्मदाः' इत्यमरः ।