पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङकाण्डम् । (४९९ ) स्थितिः, प्रमदावनम् अशोकवनिकां जहाहि । पत्युरन्तिकं याहीत्यर्थः । सर्वत्र विधौ लोट् ॥ १० ॥ अथ युग्मकम् । स्नानुलिम्प धूपाय निवस्स्वाविध्य च स्रजम् । रत्नान्यामुञ्च संदीप्ते हरिर्जुहुधि पावके ॥ ११ ॥ अद्ध त्वं पञ्चगव्यं च छिन्धि संरोधजं तमः । आरोह शिबिकां हैमीं द्विषां जहि मनोरथान् ॥ १२ ॥ स्नाहीत्यादि — स्नाहि स्नानं कुरु | ततः कायशुद्धपर्थ सदनुपहतं पञ्च- व्यमद्धि भक्षय | 'हुझभ्यो हेधिः |६|४|१०१।५ गोरेतानि गव्यानि । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । पञ्च गव्यांनि समाहतानीति पात्रादि- दर्शनान्न ङीप् । ततः पवित्रीकृतकाया, सन्दीप्ते पावकेऽग्नौ हविर्घृतं जुहुधि । ततः स्वामिनं रामं गन्तुमनुष्ठितदेवकार्या सती त्वमालिम्प चन्दना- दिना शरीरं समालभस्व । ततो निवस्स्व आच्छादय । 'वस आच्छादने' अदादित्वाच्छपो लुक् । धातुसकारस्य परगमनम् । ततो धूपाय धूपि- तमात्मानं कुरु | धूपेरायप्रत्ययः । आविध्य च स्रु मालां शिरस्याक्षिप । "व्यध ताडने' श्यनि 'ग्रहिज्या वायव्याधिवष्टिविचतिवृश्चतिपृच्छति- भ्रूज्जतीनां ङिति च | ६ | १ | १६ |' ' इति सम्प्रसारणम् । रत्नान्यामुच्च विन्यस्ये-. त्ययमर्थवशात् क्रियाक्रमो द्रष्टव्यः । यथा देवदत्तं भोजय स्नापय उद्वर्त- येति । किं च संरोधजम् अस्वतन्त्रीकरणजं तमः शोकें छिन्धि अपनय | हैमी शिबिकां सौवर्णयानमारोह अधितिष्ठ । सर्वत्र भर्तुर्नियोगकरणे लोट् । तामारूढा द्विषां मनोरथान् हृदये स्थितानभिप्रायान् जहि नाशय । हो परतो 'हन्तेर्जः ||६|४|३६||११||१२|| तृणेढु त्वद्वियोगोत्थां राजन्यानां पतिः शुचम् | भवतादधियुक्ता त्वमत ऊर्ध्वं स्ववेश्मनि ॥ १३ ॥ तृणेवित्यादि-गतायां त्वयि राजन्यानां क्षत्रियाणां पती रामः शुचं शोकं त्वद्वियोगोत्थां त्वद्वियोगप्रभवाम् । 'सुपि स्थः | ३|२|४|| इति कः । 'उदः स्थास्तम्भोः पूर्वस्य |८|४|६१|' इति पूर्वसवर्णः । तृणेदु हिनस्तु । अतः १ शोकस्यापि तमोरूपत्वादिदं लक्षणयो कम् राहौ ध्वान्ते गुणे तमः ।' इत्यमरः ।