पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४९८) भट्टिकाव्ये जयमङ्गलासमेते- [ विंश:- सिद्धत्वे 'ढुझलभ्यो हेर्धिः । ६ । ४ । १०१ ।' कार्यमाह । गत्वा प्रवद राघवं समादेशाद् ब्रूहि ॥ ६ ॥ किं मया वक्तव्यमिति चेत्तदाह -- दिदृक्षुमैथिली राम पश्यतु त्वाऽविलम्बितम् । तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥ ७ ॥ दिदृक्षु रित्यादि — हे राम ! द्रष्टुमिच्छुमैथिली सीता अविलम्बितं द्रुतं त्वा त्वां पश्यतु । सर्वत्र प्रार्थनायां लोट् । स पवनात्मजो हनुमान् प्रतिज्ञाय यथाज्ञापयसीति तथेति स्वीकृत्य गत्वा राघवमुक्तवान् ॥ ७ ॥ किमित्याह -- उत्सुकाऽऽनीयतां देवी काकुत्स्थकुलनन्दन | क्ष्मां लिखित्वा विनिश्वस्य स्वरालोक्य विभीषणम् ॥ ८ ॥ उत्सुकेत्यादि—हे काकुत्स्थकुलनन्दन ! उत्सुका देवी आनीयतामिति । 'प्रार्थनायां कर्मणि लोट् । एवमुक्ते रावणवधे महति प्रयास कृतेऽपि जनवाद- भयात् न तया सह मया वास: कार्य इत्यभिप्रायेण । राघवः क्ष्मामङ्गुष्ठेन लिखित्वा विनिश्वस्य स्वरालोक्य आकाशं दृष्ट्वा । स्वरित्यव्ययम् । विभी- यणमुक्तवानिति वक्ष्यमाणेन सम्बन्धः ॥ ८ ॥ लोट् । उक्तवान् राघवः सीतामानयालङ्कृतामिति । गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः ॥ ९ ॥ उक्तवानित्यादि—सीतामलंकृतामानयेति राघवो राम उक्तवान् । विधौ इत्येवं रामेणाज्ञायां दत्तायां तेन विभीषेणन गत्वा सीतासमीपं प्रणम्य तां मैथिलीं पुनः प्रणिपत्य च मैथिल्युक्ता मधुरं वचः ॥ ९ ॥ ज़हीहि शोकं वैदेहि प्रीतये घेहि मानसम् | रावणे जहिहि द्वेष जहाहि प्रमदावनम् ॥ १० ॥ जहीहीत्यादि-शोकं पतिवियोगजं जहीहि परित्यज | जहातेश्च |६|४| ११६।' इत्यन्यतरस्यामित्वमीत्वं च 'आ च हो | ६|४|११७ |' इत्याकार इति रूपत्रेयम् । प्रीतये प्रीत्यर्थ शरीरप्रसाधनद्वारा स्वप्रसादना येत्यर्थः । पुनमनसं चित्तम् घेहि घटयस्व 'ध्वसोरेद्धावभ्यासलोश्च ।६।१४ | १९१९ । रावणे रावणविषये द्वेषं जहिहि तस्य विनष्टत्वात् 'मरणान्तानि वैराणि' इति हि १ 'भूतलम्' 'माऽवनिर्मेदिनी मही' इत्यमरः ।