पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४९७ ) – अनुजानीहीत्यादि - अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट् । येन्द्र मयैता राक्षस्यस्तव रक्षिकाः क्षुद्रमानसाः पापाशयाः हन्यन्तां विनाश्यन्ताम् । अत्र विधौ कर्मणि लोट् । तस्मादेतासु मत्सरं गृहाण जनय | प्रार्थनायां लोट् येन गृहीतक्रोधा मामनुज्ञास्यसि ॥ २ ॥ तृणहानि दुराचारा घोररूपाशयक्रियाः । हिंस्रा भवतु ते बुद्धिरेतासु कुरु निष्ठुरम् ॥ ३ ॥ तृणहानीत्यादि - - एता दुराचारा: घोररूपाशयक्रिया: क्रूराणि आकारा- अभिप्रायानुष्ठानानि यासां तास्तृणहानि हनिष्यामि । तदतासु हिंस्रा हिंसनशीला तव बुद्धिर्भवतु | निष्ठुरं च नैष्टुर्ये कुरु । भावप्रधानो निर्देशः ॥ ३ ॥ पश्चिमं करवामैतत् प्रियं देवि वयं तव । ततः प्रोक्तवती सीता वानरं करुणाशया ॥ ४ ॥ पश्चिममित्यादि—हे देवि ! किमत्र विचारितेन तव पश्चिममन्त्यं प्रियम् एतद्वयं करवाम करिष्यामः । 'अस्मदो द्वयोश्च |१||२|५९' इत्यत्वे बहु- वचनम् । ततोऽनन्तरं सीता केरुणाशया सती वानरं प्रोक्तवती ॥ ४ ॥ उपशाम्यतु ते बुद्धिः पिण्डनिवेंशकारिषु । लघुसत्त्वेषु दोषोऽयं यत्कृतो निहतोऽसकौ ॥ ५ ॥ उपेत्यादि -- लघुसत्त्रेषु स्त्रीजनेषु पिण्डनिर्वेशकारिषु पिण्डस्य ग्रासस्य निर्वेशो निष्क्रयः तत्कारिषु ते बुद्धिरुपशाम्यतु सकरुणा भवतु | सर्वत्र विधा लोट् । किमिति चेत् यत्कृतो यज्जनितोऽयं दोषः ममैताभिः कृतः । असकौ असौ रावणो निहतो व्यापादित: । कुत्सायाम् 'अव्ययसर्वनाम्नामकच् प्राक् टे: ।५।३।७१।' इति अकच् ।। ५ ।। नहि प्रेष्यवधं घोरं करवाण्यस्तु ते मतिः । एधि कार्यकरस्त्वं मे गत्वा प्रवद राघवम् ॥ ६॥ नहीत्यादि----अन्यच्च नहि नैव घोरं प्रेष्यवधं करवाणि करिष्यामीतीत्थम् मतिस्तवाप्यस्तु । 'आशिषि लिलोटी ||३|३|१७३|| इति लोट् । अतस्त्वं कार्यकरः कार्यकरणे अनुकूल: । आनुलोम्ये टः । एधि भव । 'असोरल्लोप: |६|४|१११।'। ‘ध्वसोरेद्धावभ्यासलोपश्च ६।१४ | १९१९ ।' एत्वस्य समानाश्रयत्वाद- १ करुणः करुणापूर्ण आशयो यस्याः सा । 'अभिप्रायश्छन्द आशयः' इत्यमरः ।