पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४९६ ) भट्टिकाव्ये जयमङ्गलासमे 'सर्वो द्वन्द्वो मन्युमित्यादि – अन्यच्च हे राजन् ! बालानां वृद्धानां च । द्विभाषैकबद्भवति' इति बालाश्च वृद्धाश्चेति वालवृद्धम् । तस्य मयुं शोकम् । भटवधकृतं भटानां पितृपुत्रादीनां च यो वधः तत्कृतम् | तज्ज- नितम् । वध्याः प्रियवचनार्थप्रदानादिभिरपनेष्यसि । शास्त्राभिज्ञाः शास्त्रा- र्थकुशलाः ते तव सदसि सभायां सन्निधिं क्रियासुः सन्निहिता भवन्त्वित्य- र्थः । सुरैर्मुनिभिश्च गते सोविते वर्त्मनि मार्गे प्राज्यधर्मे भूरिपुण्ये संर- सीष्ठा : स्यसे । द्विषां शत्रूणाम् ईहितानि चेष्टितानि सुनयनयनैः शोभना ये नया: तैरेव नयनैश्चक्षुभिरिवावस्थितैः सम्भुत्सीष्ठाः जानीथाः ज्ञास्यसि । 'बुध अवगमने' एकाचो बशो भषू ॥ ३० ॥ इति जयदेवाद्यपरपर्य्याय- श्रीजयमङ्गलसूरिविरचितया श्रीजयमङ्गला- ख्यया व्याख्यया समलङ्कृते श्रीभट्टिप्रणीते रामचरिते काव्ये चतुर्थे तिङन्तकाण्डे लक्षणरूपे षष्ठः परिच्छेदः, लक्ष्यरूपे कथानके 'विभीषणाभिषेको' नाम एकोनविंशति- तमः सर्गः ॥ १९ ॥ विंशः सर्गः । इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह -- तत्र 'लोट् च' इति वचना-- द्विध्यादिष्वर्थेषु लोट् । ततोऽन्यत्रापि दर्शयिष्यति- -- [ विंशः - समुपेत्य ततः सीतामुक्तवान् पवनात्मजः | दिष्टया वर्धस्व वैदेहि हतस्त्रैलोक्यकण्टकः ॥ १ ॥ समुपेत्येत्यादि--ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य समुपागम्योक्तवान् । हे वैदेहि ! रावणबैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन दिष्टया प्रियवचनेन वर्धस्व वियोगतो वयसीति न्त्रणे लोट् ॥ १ ॥ । निम- अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाः । रक्षिकास्तव राक्षस्यो गृहाणैतासु मत्सरम् ॥ २ ॥ १ अत्र मन्दाक्रान्ता छन्दः 'मो भ्रौ तो गौ मन्दाक्रान्ता घचैः' इति च्छन्दो- ऽनुशासनोक्तेः ।