पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | (४९५) हतीः शत्रुसमूहान् वध्या: विनाशयिष्यसि । 'हुनो वधलिङ |२४|४२१ भूयाश्च गुणिनां मान्यः । श्रुतशीलवतां मानाहश्च भविष्यसि । तेषां च · गुणिनां व्यवस्थित चिरकालं स्थेयाः स्थास्यसि ॥ २६ ॥ धेयास्त्वं सुहृदां प्रीति वन्दिषीष्ठा दिवौकसः । सोमं पेयश्च हेयाश्च हिंस्रा हानिकरी: क्रियाः ॥ २७ ॥ धेया इत्यादि — त्वं सुहृदां मित्राणाम् 'सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।- १५ |' इति साधुः । प्रीतिं धेयोः जनयिष्यसि । दिवौकसो द्यौरोको येषां तान् देवान्वन्दिषीष्ठाः प्रणंस्यसि । सोमं सुधारसं पेया: पास्यसि । तथा हिंस्राः परोपघातिकाः हानिकरी: अपचयहेतुकाः क्रियाः हेयाः त्यक्ष्यसि ॥ २७ ॥ अवसेयाश्च कार्याणि धर्मेण पुरवासिनाम् । अनुरागं किया राजन् सदा सर्वगतं जने ॥ २८ ॥ अवसेया इत्यादि ---- पुनः पुरवासिनां लङ्कापुरीनिवासिनां कार्याणि धर्मेणावसेयाः समाप्स्यसि । 'षोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनु- रागं सर्वगतं सर्वव्यापिनं क्रिया: करिष्यसि ॥ २८ ॥ घानिषीष्ट त्वया मन्युग्रहिषीष्ट समुन्नतिः । रक्षोभिर्दशिषीष्ठास्त्वं द्रक्षीरन् भवता च ते ॥ २९ ॥ घानिषीष्टेत्यादि--मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः ग्रांहिषीष्ट ग्रहीष्यते । रक्षोभिर्दर्शनपरैर्द- शिंषीष्ठाः द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च द्रक्षीरन् । अचि- व्वद्भावपक्षः ॥ २९ ॥ मन्युं वध्या भटवधकृतं बालवृद्धस्य राजन् ! शास्त्राभिज्ञाः सदसि सुधियः सन्निधिं ते क्रियासुः । संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे सम्भुत्सीष्ठाः सुनयनयनविद्विपामीहितानि ।। ३० ॥ इति महावैयाकरण - श्रीमट्टिप्रणीते रामचरिते काव्ये तिङन्तकाण्डे लिङ्-विलसितो नामैकोनविंशतितमः सर्गः ॥ १ यद्यपि विपूर्तस्यैव दुधाते: प्रकृतोऽर्थः, तथाऽपि घातूनामनेकार्थत्वा - दिदं समाधेयम् ।