पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४९४) भट्टिकाव्ये जयमङ्गलासमेते- ततः स गतवान् कर्तुं भ्रातुरग्निजलक्रियाम् । प्रोक्तवान् कृतकर्तव्यं वचो रामोऽय राक्षसम् ॥ २२ ॥ - तत इत्यादि — ततो वचनानन्तरं भ्रातुरभिक्रियां जांचकर्तु गतवान् । अथ कृतकर्तव्यं राक्षसं रामः वचः प्रोक्तवान् ॥ २२॥ अम्भांसि रुक्मकुम्भेन सिञ्चन् मूर्ध्नि समाधिमान् । त्वं राजा रक्षसां लङ्कामवेक्षेथा विभीषण ॥ २३ ॥ अम्भांसीत्यादि – रुक्मैकुम्भे स्वर्णकलशेनाम्भांसि जलानि मूर्ध्नि सिञ्चन् पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । विभीषण ! समा- घिमान् ध्यानवान् त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याका- र्यनिरूपणेन द्रक्ष्यसि ॥ २३ ॥ [ ऊनविंशः- क्रुद्धाननुनयः सम्यग्धनैर्लुब्धानुपार्जयेः । मानिनो मानयेः काले त्रस्तान् पौलस्त्य सान्त्वयेः ॥ २४ ॥ क्रुद्धानित्यादि — हे पौलस्त्य ! क्रुद्वाननुनयेः प्रसादयिष्यसि । ये लुब्धा- स्तान् धनेनोपार्जये: दानेन ग्रहीष्यसि । मानिन: सत्कारोचिते काले मान- ये: पूजयिष्यसि । त्रस्तान् भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे नियोगकरणे प्रार्थनायां वा लिङ् ॥ २४ ॥ -- इच्छा मे परमानन्देः कथं त्वं वृत्रशत्रुवत् । इच्छेद्धि सुहृदं सर्वो वृद्धिसंस्थं यतः सुहृत् ॥ २५ ॥ इच्छेत्यादि - इयं च मे इच्छा महती । यत्त्वं वृत्रशत्रुवदिन्द्र इव कथ- मानन्दे : मुदितो भविष्यसि । 'इच्छार्थेषु लिङ्लोटी |३|३|१५७|' इति लिङ् । इच्छार्थस्य धातोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धिसंस्थम् उदयस्थमिच्छेत् इच्छति । 'इच्छार्थेभ्यो विभाषा वर्तमाने |३|३|१९६० इति लिङ् ।। २५ ।। वर्धिषीष्ठाः स्वजातेषु वध्यास्त्वं रिपुसंहतीः । भयास्त्वं गुणिनां मान्यस्तेषां स्थेया व्यवस्थितौ ॥ २६ ॥ वर्धिषीष्ठा इत्यादि-स्वजातेषु स्वजातिषु राक्षसेषु मध्ये त्वं वर्धिषीष्ठाः बृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र | रिपु- १ 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदो स्त्रियाम् इत्यमरः |२ अम्भोऽर्णस्तोय- पानीयनीरक्षीराम्बुशम्बरम् ।' इत्यमरः ।