पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] "तिकाण्डम् । (४९१) उह्येरन्नित्यादि—यज्ञपात्राणि स्रुगादीनि उह्येरन् आनीयन्ताम् । विभाव- सुश्चाग्निः ह्रियेत । ऋत्विभिः आज्यमपि भ्रियेत । समित्कुशं कल्प्येत च कल्प्यम् । सर्वत्र विधौ कर्मणि लिङ ॥ १० ॥ स्नानीयैः स्नापयेताशु रम्यैर्लिम्पेत वर्णकैः । अलङ्कुर्यात रत्नश्च रावणार्दशाननम् ॥ ११ ॥ स्नानीयै रित्यादि- --- यथा स्वविहितं च कृत्वा रम्यैः स्नानीयै- देशाननं राक्षसाधिपं स्नापयेत स्नापयिष्यथ । 'ग्लास्नावनुवमां च' इति विकल्पेन मित्त्वम् । तत्र 'ज्वलह्वलनमामनुपसर्गाद्वा' इति वाग्रहणमनु- वर्तते । वर्णकैश्चन्दनादिभिः रम्यैर्लिम्पेत विलेप्स्यथ । रत्नैश्च रावणार्नित्य- नैमित्तिकैरलंकुर्यात अलंकरिष्यथ ॥ ११ ॥ वासयेत सुवासोभ्यां मेध्याभ्यां राक्षसाधिपम् । ऋत्विक् स्रग्विणमाद्ध्यात् प्राइमूर्धानं मृगाजिने ॥ १२ ॥ वासयेतेत्यादि----सुवासोभ्यां मेध्याभ्यां पूताभ्यां वासयेत च आच्छादयि- ब्यथ । ऋत्विक् यज्वा स्रग्विणं कृत्वा मालाभूषितं कृत्वा मृगाजिने प्राङ्मूर्धानं प्राच्यां मूर्धा यस्य पूर्वशिरसमादध्यात् स्थापयेत् ॥ १२ ॥ यज्ञपात्राणि गात्रेषु चिनुयाच्च यथाविधि | जुहुयाच्च हविर्वह्नौ गायेयुः साम सामगाः ॥ १३ ॥ यज्ञपात्राणीत्यादि- – स एव यथाविधि यथाक्रमं यथाशास्त्रं वा यज्ञस्य पात्राणि स्रुगादीनि गात्रेषु चिनुत् । हविराज्यं वह्नौ जुहुयात् । निक्षि- वेत् । सामगाः छन्दोगाः साम तदाख्यं वेदं गायेयुश्च । 'आतोऽनुपसर्गे कः |३|२||३|' इति कः । सर्वत्र विधौ लिङ् ॥ १३ ॥ गत्वाथ ते पुरीं लङ्कां कृत्वा सर्व यथोदितम् । समीपेऽन्त्याहुतेः सास्राः प्रोक्तवन्तो विभीषणम् ॥ १४ ॥ गत्वेत्यादि – अथानन्तरं ते मन्त्रिण: लङ्कापुरीं गत्वा यथोदितं यथाशास्त्रम् सर्वकर्म च कृत्वा । अन्त्याहुतेर्मृताहुतेः अनन्तरं तस्य समीपे सास्राः सबाष्पाः विभीषणं प्रोक्तवन्तः ऊचुः ॥ १४ ॥ भ्रू I १ यथाकथितम् । उद्यते स्मेत्युदितम् । 'वद व्यक्तायां वाचि' क्तः, सम्प्रसारण- उदितमनतिक्रम्येति यथोदितम् । 'यथाऽसादृश्ये २|११७' इति समासः