पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ ऊनविंश:- ( ४९२ ) कृतं सर्वे यथोद्दिष्टं कर्तुं वहिजलक्रियाम् । प्रयतेथा महाराज सह सर्वैः स्वबन्धुभिः ॥ १५ ॥ कृतमित्यादि – यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतम् । त्वमिदानीं भ्रातुर्वह्निक्रियां जलक्रियां च कर्तुं स्वबन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥ १४ ॥ अज्ञवन्नोत्सद्देथास्त्वं घेया धीरत्वमच्युतम् । स्थेयाः कार्येषु बन्धूनां हेयाः शोकोद्भवं तमः ॥ १६ ॥ - अज्ञवदित्यादि — शोकादप्रवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथा : किमवसीदसि गर्हितमेतत् । 'किंवृत्ते लिङ्टौ | ३|३| १४४ |' इति गर्हायां लिङ् । इयं चास्माकमाशंसा | यत्तु धीरत्वं धैर्यम् अच्युतम् अक्षतज्ञानम् । धेयाः धास्यसि । बन्धूनां च कार्येषु स्थेयाः स्थास्यसि । शोकोद्भवं च तमोऽज्ञानं हेयास्त्यक्ष्यसि । सर्वत्रांशिषि लिङ् । आर्धधातुकत्वात् । ‘ एलैिंङि।६ । ४ ६७’ इत्यसंयोगादेरेत्वम् ।। १६ ॥ 6 नावकल्प्यमिदं ग्लायेद्यत्कृच्छ्रेषु भवानपि । न पृथग्जनवज्जातु प्रमृह्येत् पण्डितो जनः ॥ १७ ॥ नावकल्प्यमित्यादि -- अन्यच्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रेषु दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । अनवक्लप्तौ असम्भावनायां ' अनवक्लप्त्यमर्षयोर किंवृत्तेऽपि । ३ । ३ । १४५ ।' इति लिङ् । सार्व- धातुकत्वात् 'वान्यस्य संयोगादेः |६|४|६८|' इत्येत्वं न विकल्प्यते । यस्मात् पण्डितो जनः पृथग्जनवत् अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः । ' जातुयदार्लिङ् |३| ३ | १४७ ।' इत्यनवक्लृप्तौ लिङ् ॥ १७ ॥ यञ्च यत्र भवांस्तिष्ठेत्तत्रान्यो रावणस्य नः । यच्च यत्र भवान् सीदेन्महद्भिस्तद्विगर्हितम् ॥ १८ ॥ यच्चेत्यादि- - यत्र देशे काले वा भवांस्तिष्ठेत् तत्र यच्च अन्यो रावणस्य कस्तिष्ठेत् अवस्थानं कः करिष्यति । नैतत्सम्भावयामः तस्य तत्र न्यूनत्वात् । अन्यस्मिन्नवक्लृप्तिः यच्छब्देनोपपदेन योगात् ' यच्चयत्रयोः | ३ | ३१४८| १ 'कदाचिजातु' इत्यमरः । जायति क्षीयते इति । जै क्षये। 'उणादयो बहु- लम् ३।३।१' इति बहुलग्रहणात्तन् ।