पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४९० ) भट्टिकाव्ये जयमङ्गलासमेते- [ ऊनविंशः-~- प्रकुर्यामेत्यादि--यत्र देशे सोदर्यस्य भ्रातुविशतिहस्तस्य न सम्भवोऽस्ति तत्र कथं वयं गर्छौ निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्हायामित्यधिकृत्य ‘विभाषा कथाम लिङ् च |३|३|१४३|| इति कथमित्युप पदे भविष्यति लिङ् ॥ ६ ॥ आमन्त्रयेत तान् महान् मन्त्रिणोऽथ विभीषणः । गच्छेत त्वरितं लङ्कां राजवेश्म विशेत च ॥ ७ ॥ आमन्त्र येतेत्यादि – अथानन्तरं विभीषणः सेदारी सभायां यैर्मन्त्रिभिः सह उत्थितः तान्मन्त्रिणः प्रह्वानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमन्त्रणे नियोगकरणे लिङ् । तदेव दर्शयति । लङ्कां त्वरितं यूर्य गच्छेत यात । गताश्च राजवेश्म विशेत अत्र विधौ प्रेषणे लिङ् । स हि सर्व- लकाराणामपवादः ।। ७ ।। • आददीध्वं महाणि तत्र वासांसि सत्वराः । उद्दुनीयात सत्कतून निर्हरेतात्र्यचन्दनम् ॥ ८ ॥ आददीध्वमित्यादि- ६ – तत्र राजवेश्मनि वासांसि महार्हाणि योग्यानि । महाँर्घाणीति पाठे तु महामूल्यानीत्यर्थः। सत्वरा आददीध्वं गृह्णीत । 'अभ्यस्तयो-- रातः । ६ । ४ । ११२ ।' इत्याकारलोपः | सत्केतून् शोभनध्वजान् उद्धर्नायात ऊर्ध्वंकरिष्यथ । ‘‘वादीनां ह्रस्वः |७|३|८० ।' 'ई हल्यघो: ।६ । ४ । ११३ ।” अग्र्यचन्दनं सच्चन्दनकाष्ठानि निर्हरेत निर्गमयत ॥ ८ ॥ मुञ्चेताकाशधूपांश्च ग्रश्नीयात स्रजः शुभाः । आनयेतामितं दारु कपूरागुरुकडुमम् ॥ ९ ॥ मुश्चेतेत्यादि--धूपघटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत । स्रजः पुष्प- माला: शुभाः प्रश्नीयात गुम्फिष्यथ । 'श्रन्थ ग्रन्थ सन्दर्भे' इति त्र्यादिः । दारु काष्ठम् अमितं प्रभूतं कर्पूरागुरुकुङ्कुमं च आनयेत । सर्वत्र त्रिधौ लिङ् ॥ ९ ॥ उह्येरन् यज्ञपात्राणि ह्रियेत च विभावसुः । म्रियेत चाज्यमृत्विग्भिः कल्प्येत च समित्कुशम् ॥ १० ॥ १ 'आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ।' इत्यमरः | २ महती अर्हा पूजा, प्रशंसा येषां तानि । 'आन्महतः समानाधिकरणजातीययोः | ३ | ४ ॥४६॥ इति दीर्घः | ३ महान् अर्धी मूल्यं येषां तानि । 'मूल्ये पूजाविधावर्धः' इत्यमरः । -