पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४८९ ) -रावणवत् सपत्नान् वयमधिजीयास्म । 'उपसर्गेण धात्वर्थो बलादन्यः प्रती- यते' इति सकर्मकता । संग्रामे च मृषीमहि । लिङश्चेति । लिङ: कित्त्वान्न गुणः । आर्धधातुकत्वान्न सलोपः । सर्वत्रैवाशिषि लिङ् ॥ २ ॥ क्रियेरंश्च दशास्येन यथान्येनापि नः कुले | देवन्द्यञ्चो नराहारा न्यञ्चश्च द्विषतां गणाः ॥ ३ ॥ - क्रियेरन्नित्यादि – यथा दशास्येन रावणेन नराहाराः राक्षसाः देवद्र्यंञ्चः देवैः सहाञ्चन्तो गच्छन्तः क्रियेरन् कृताः। 'विष्वग्देवयोश्च टेरद्रयञ्चतावप्रत्यये ।६ । ३ । ९२ ।' इति टेरयादेशः । द्विषतां च गणाः न्यञ्चः नीचैरञ्चन्तः कृता: तिरस्कृताः । तथा नोऽस्माकं कुले अन्येन क्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृषीरन्निति वा पाठः । आशिषि कर्मणि लिङ् ॥ ३ ॥ स एव धारयेत प्राणानीदृशे बन्धुविप्लवे । भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः ॥ ४ ॥ स एवेत्यादि - - ईदृशे बन्धुविप्लेवे बन्धुविनाशेऽपि स एव प्राणान् धार• येत् नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् | यस्य भवादृशः सुहृन्मित्रं शक्त आश्वांसकः सान्त्वयिता भवेत् । सम्भावनायां लिङ् ॥ ४॥ म्रियेयोर्ध्वं मुहूर्ताद्धि न स्यास्त्वं यदि मे गतिः । आशंसा नहि बः प्रेते जीवेम दशमूर्धनि ॥ ५ ॥ प्राप्तकालः नियेयेत्यादि – यदि मे मम गतिः शरणं त्वं न स्याः न भवेः । लिङ् । तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्वे म्रियेय । नियोगतः 'लिङ् । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने चोर्ध्वमौहूर्तिके । ३ । ३।१६४ |' इति लिङ् | तत्र हि प्रैषादयोऽनुवर्तन्ते । ‘म्रियतेर्लुङ् लिङोश्च । १ । ३।६१ ।” इति तङ् । ततः सार्व- धातुकत्वात् शः । हि यस्मान्नोऽस्माकं नेयमाशंसा यशमूर्ध दशानने प्रेते मृते त्वयि वाऽशरणे जीवेम प्राणान् धारयिष्याम इति । अत्राशंसावच नस्योपपदत्वात् लिङ ॥ ५ ॥ प्रकुर्याम वयं देशे गह्य तत्र कथ रतिम् । यत्र विंशतिहस्तस्य न सोदर्यस्थ सम्भवः ॥ ६ ॥ १'विप्लवो वाक्कलौ सर्वक्षये युद्धाप' इति रभसः |