पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ ऊनविंशः - त्वमर्हसीत्यादि--तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि ‘युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वयि धुर्ये धुरं वहति विपन्ने विनष्टे सति हे क्षणदाचरेन्द्र! निशाचराणामिन्द्र इवेन्द्रस्तत्सम्बुद्धौ राज्यभारः अनूढः अन्यैरनधिष्ठितः सन् मज्जति अधो याति शत्रुभिर्विनश्यति । तस्मात् त्वया समाहितेन राज्यभारो वोढव्य इति ॥ ४२ ॥ इति श्रीजटेश्वरारपर्यायजयमङ्गलसूरिविरचितया जय- मङ्गलाख्यया व्याख्यया समलङ कृते श्रीभाट्टप्रणीते राम- रिव्येचतताण्डे लक्षणरूपे पञ्चमः परिच्छेदः, लक्ष्यरूपे कथा- नके 'विभीषण - प्रलापो' नाम अष्टादशः सर्गश्च । (४८८) ऊनविंशः सर्गः । इतः ग्रभृति लिङमधिकृत्य विलसितमाह-तत्र विध्यादिषु लिङ् । ततो- अन्यत्रापि दर्शयिष्यति- अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान् । अशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम् ॥ १ ॥ - - अपमन्युरित्यादि- ततोऽनन्तरं पौलस्त्यो विभीषण: अपमन्युः अप- गतो मन्युर्यस्य शोको स गृहीतकिञ्चिद्धैर्य इति भावः । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्तवान् | देव ! किमेव - मभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किन दुनुयाद्वियोगन अवश्यतया किं नापता- प्रयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥ १ ॥ तं नो देवा विधेयासुर्येन रावणवद् वयम् | सपत्नांश्चाधिजीयाम्म सङ्ग्रामे च सृषीमहि ॥ २ ॥ तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे । तमुपायं नोऽस्माकं देवा विधेयासुः । 'घुमास्थागापाजहातिसां हलि |६| ४२६६।' इत्यनुवृत्तौ 'एलिडि |६|४|६७|' इत्येकारादेशः । येनोपायेन १ अन्त्रेन्द्रवज्रोपेन्द्रवज्रयोर्मेलनात्तयोरुपजातिरिति च्छन्दः ।