पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४८७) ‘अधीगर्थदयेशां कर्म्माणि | २ | ३ | ५२ ।। इति कर्मणि षष्ठी । प्रमन्यु चेति क्रियाविशेषणं प्रकृष्टशोकमित्यर्थः । 'प्रमन्यवः' इति पाठान्तरं प्रकृष्टशोका इत्यर्थः ॥ ३८ ॥ रावणस्य नमन्ति स्म पौरा: साखा रुदन्ति च । भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम् ॥ ३९ ॥ रावणस्येत्यादि-पौराश्च रावणस्य नमन्ति स्म नमस्यन्ति स्म । पादावित्य-- र्थात् तत्सम्बन्धित्वात् । सास्रांश्च सन्तः रुदन्ति स्म । ततोऽनन्तरं रामः पौलस्त्यं विभीषणम् आकुलं वचो भाषते स्म उक्तवान् ॥ ३९ ॥ दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन् । युद्धाभग्नाविपन्नस्य किं दशास्यस्य शोचसि ॥ ४० ॥ G दातुरित्यादि----दशास्यो दाता, द्विषां मूर्ध्नि स्थातो, यष्टा यज्ञानां पितॄन् तर्पयिता । तृप तृप्तौ' चुरादिः । युधि देवादीनां संग्रामे- ऽभग्नः अविपन्न: । तस्यैवंविधस्य किं शोचसि शोच्यमेव नास्ति वर्तमाने लट् ॥ ४० ॥ बोभवीति न सम्मोहो व्यसने स्मनुभवादृशाम् | किं न पश्यसि सर्वोऽयं जनस्त्वामवलम्बते ॥ ४१ ॥ बोभवीतीत्यादि--भवादृशां युष्मद्विधानां व्यसने दुःखे सम्मोहः अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुकि रूपम् । एवं च सति स्वार्थो न हीयते । यतः किं न पश्यसि अयं सर्वो जनः त्वामवलम्बते 'त्वमेत्र स्वामी' इति प्रतीक्षते ॥ ४१ ॥ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं जसंस्थास्य च शोकभङ्गम् । धुर्ये विपन्ने त्वायें राज्यभारो मज्जत्यनूढः क्षणदाचरेन्द्र ॥ ४२ ॥ इति महावैयाकरणश्रीभट्टिमणीतरामचरित- काव्ये तिङन्तकाण्डे लविलसितो नामाष्टादशः सर्गः । १ अस्रुपूर्णनेत्रा इति भावः । 'रोदनं चालमश्रु च ।' इत्यमरः | २ एवेनास्य किरीटवदुपास्थत्वं सूचितम् ।