पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८६) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टादश:- न गच्छामीत्यादि – यावदहमायुद्धामि धारयिष्यामि जीविष्यामीति भावः । ' यावत्पुरानिपातयोट् | ३ | ३ | ४ | इति भविष्यति । पुराशब्द- इत्र भविष्यदासत्तिमाह | प्रीतिर्हिं लङ्काप्रवेश इति दर्शयन्नाह --- चेद्य- यहं त्वां जीवन्तं न पश्यामि । वर्तमाने लट् । कदा कस्मिन् काले मे मम प्रीतिर्भवति भविष्यति । 'विभाषा काकः |३|३|५|| इति भवि ज्यति 'लट् ॥ ३५ ॥ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः | - मन्त्रे स्म हितमाख्यामि न करोमि तवाप्रियम् ॥ ३६ ।। ऊर्ध्वमित्यादि — मुहूर्तादूर्ध्वम् उपरि अहं म्रिये मरिष्यामि । क्षतबान्धवः विनष्टबन्धुजनः । अत एव विह्वल : सन् । अनेन मरणस्य निमित्तभूतं प्राप्त - कालं लोडर्थं दर्शयति । तेन 'लिङ् चोर्ध्वमौहूर्ति |३|३|| इति लोड - लक्षणे भविष्यति लट् । लोटश्च प्रैषादिकः । “म्रियतेर्लुङ्लिङोश्च । १।३। ६१ ।' इति चकारात् शितश्चात्मनेपदम् । अन्यच्च मन्त्रे मन्त्रविषये हितमा - ख्यामि स्म आख्यातवानहम् । 'अपरोक्षं च | ३|२|११९|' इति लट् । ममा- प्रियं मा कार्पोरिति पृष्टः सन्नहं न करोमि तवाप्रियमिति न कृतवानस्मि । 'नन्वोर्विभाषा | ३|२|१२१|' इति पृष्टप्रतिवचने लट् ॥ ३६ ॥ अथ युग्मकम् । अन्तःपुराणि पौलस्त्यं पौराश्च भृशदुःखिताः | संश्रुत्य स्माभिधावन्ति हंतं रामेण संयुगे ॥ ३७ ॥ अन्तःपुराणीत्यादि – अनन्तरं पौलस्त्यं रावणं रामेण हृतं संश्रुत्य श्रुत्वा अन्तःपुराण अन्तःपुरवर्त्तीनि कलत्राणि पौराश्च लङ्कापुरवा- - स्तव्या अन्येऽवशिष्टा राक्षसाइच | पुर्याम्भवा इति तथोक्ताः दुःखिताः अभि- धावन्ति स्म ढौकन्ते स्म । 'लट् स्मे | ३ | २ | ११८ ।। इति भूतानद्यतनप रोक्षे लट् ॥ ३७ ॥ मूर्धजान् स्म विलुञ्चन्ति क्रोशन्ति स्मातिविह्वलम् । अधीयन्त्युपकाराणां मुहुर्तुः प्रमन्यु च ॥ ३८ ॥ मूर्धजानित्यादि-मूर्धजान् केशान्विलध्वन्ति स्म अपनयन्ति स्म । अति- बिद्दलम् अतिवैक्लव्यं स्म । अन्तःपुराणीत्यर्थः गुणप्रधानो निर्देशः । क्रोशन्ति स्म फुत्कारं कुर्वन्ति । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । 'इक् स्मरणे 1