पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] तिङ्काण्डम् । ( ४८५ ) इत्वाभावपक्षे रूपम् । न दरिद्रितः दारेद्रौ न भवतः । 'इद्दरिद्रस्य । ६ । ४ । ११४ ।' इति हलादौ किति सार्वधातुक इत् । हप्तौ न गर्व जहितः परि- त्यजतः 'जहातेश्च | ६|४|११६ |' इतीत्वम् । न किश्श्रीतः केशं नानुभवतः । 'ई हल्योः ||६|४|११३|' इतीत्वम् ॥ ३१ ॥ त्वयापि नाम रहिताः कार्याणि तनुमो वयम् । कुर्मश्च जीविते बुद्धिं धिक् तृष्णां कृतनाशिनीम् ॥ ३२ ॥ त्वयेत्यादि -- यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारय- व्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनीं परकृतोपकारादिविस्मारिकां धिक् । 'गर्हायां लडपिजात्वोः | ३ | ३ | १४२ ।' इति भविष्यति लट् ॥ ३२ ॥ तृणेह्नि देहमात्मीयं त्वं वाचं न ददासि चेत् । द्वाघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव ॥ ३३ ॥ तृणेझीत्यादि --मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीय देहं तृणेह्मि हन्मि । 'तृणह इम् |७|३|९२ |' हि यस्मात् स्मर्यमाणास्तव गुणा: मम शोकं द्राघयन्ति दीर्घ कुर्वन्ति । णाविष्ठवद्भावेन 'प्रिय- स्थिरस्फिरोरुब हुलगुरुवृद्धत प्रदीर्घवृन्दारकाणां प्रस्थस्फववैहि गर्वपित्रद्वाधिवृन्दाः |६|४|१५७।' इति दीर्घशब्दस्य द्राघादेशः ॥ ३३ ॥ उन्मुच्य स्रजमात्मीयां मां नजयति को हसन् । नेदयत्यासनं को मे को हि मे वदति प्रियम् ॥ ३४ ॥ उन्मुच्येत्यादि --- आत्मीयां स्रजं मालामुन्मुच्यापनीय देहात् हसन् परि- •तोषात् को मां स्रजयति स्रग्विणं करोति । णाविष्ठवद्भावात् 'विन्मतोलुक् ॥५- १३/६५|' इति विनो लुक् । 'प्रकृत्यै|६||४|१६३|' इति टिलोपाभावः । को वा समासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्ठवद्भावात् 'अन्तिकबाढयोनेंदुसाधौ । ५ | ३ |६३ इति अन्तिकशब्दस्य नेदादेशः । कहि कदा को मे प्रियंवदति वदिष्यति । 'विभाषा कदाकर्त्योः । ३ । ३ । ५।१ इति भविष्यति ॥ ३४ ॥ लटू न गच्छामि पुरा लङ्कामायुर्यावङ् दधाम्यहम् । कदा भवति मे प्रीतिस्त्वां पश्यामि न चेदहम् ॥ ३५ ॥