पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८४) भट्टिकाव्ये जयमङ्गलासमेत - [ अष्टादश:- पुनन्ति । हे महाराज ! त्वं पुनः प्रशान्तोऽपि किं नोज्जिहीषे नोत्तिष्ठसि । 'ओहाङ् गतौ' इत्यभ्यासस्य 'भृणामित् । ७ । ४ । ७६ । इति इत्त्वम् । 'ई हल्यघोः ||६|१|१३|' इतीत्वम् ॥ २७ ॥ प्रोणोंति शोकश्चित्तं मे सत्त्वं संशाम्यतीव मे । प्रमाष्टिं दुःखमालोकं मुञ्चाम्यूर्जे त्वया विना ॥ २८ ॥ प्रणोतीत्यादि--- हे महाराज ! त्वयां विना शोको मम चित्तं प्रति आच्छादयति । सत्त्वम् अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः । दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमाष्टि अपनयति । अतस्त्वया विना ऊर्जे बलं मुञ्चामि । अलसो भवामीत्यर्थः ॥ २८ ॥ के न संविद्वते नान्यस्त्वत्तो बान्धववत्सलः । विरौमि शून्ये प्रोर्णोमि कथं मन्युसमुद्भवम् ॥ २९ ॥ केनेत्यादि--त्वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्रते न जा नते । 'समो गम्यृच्छिभ्याम् ||१||३|२९|| इति तङ् । 'वेत्तेर्विभाषा |७|११- ७|' इति रुट् । किंतु सर्व एव संविदत इति भावः । बन्धुरेव बान्धवः । 'प्रज्ञादिभ्यश्च । ५ । ४ । ३८ ।। इति स्वार्थेऽण । अतोऽहं शून्ये बन्धु- विरहिते समये देशे वा विरामि फूत्करोमि । कथं केन प्रकारेण मयुंस- मुद्भवं शोकोत्पादं प्रोणमि आच्छादयामि ॥ २९ ॥ रोदिम्यनाथमात्मानं वन्धुना रहितस्त्वया | प्रमाणं नोपकाराणामवगच्छामि यस्य ते ॥ ३० ॥ रोदिमीत्यादि- 1 - त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव रोदिमि त्वां कृतकार्यम् | यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥ ३० ॥ नेदानीं शऋयक्षेन्द्रौ बिभीतो न दरिद्वितः । न गर्व जहितो हप्तौ न क्लिनीतो दशानन ! ॥ ३१ ॥ - नेदानी मित्यादि — इदांनीं त्वय्येवंभूते शक्रयक्षेन्द्रौ इन्द्रः कुबेरश्च न बिभीतः न भयं कुरुतः । 'भियोऽन्यतरस्याम् । ६ । ४ । ११५ ।। इति १ 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम् २।३।३२' इति तृतीया | २ 'मन्युशोकौ- तु शुक् स्त्रियाम्' इत्यमरः | ३ अस्मिन् काले इत्यर्थः । 'दानीं च ५।३।१८' इति साधु ।