पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । चञ्चूर्यन्तेऽभितो लङ्कामस्मांश्चाप्यतिशेरते । ( भूमयन्ति स्वसामर्थ्य कीर्ति नः कनयन्ति च ॥ २५ ॥ चञ्चूर्यन्त इत्यादि -- लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । 'पर्यभिभ्यां च |५|३|९|| इति सर्वोभयार्थो तसिः । चञ्चूर्यन्ते गर्हितं चरन्ति । 'लुप- सदचरजपजभद्हदशगृभ्यो भावगयाम् | ||३|१|२४|| इति भावगयां यङ् । ‘चरफलोश्च ।७।४।८७ |' इत्यभ्यासस्य नुक् । उत्परस्यातः ।७।४- १८८ इत्युत्वम् । अस्मांश्चापि अतिशेरते अतिशयिता भवन्ति च । स्वसा- मर्थ्य भूमयन्ति वर्धयन्ति । बहूनां भाव इति 'पृथ्वादिभ्य इमनिज् वा ।५।१।१२२।' । ‘बहोर्लोपो भूच बहोः |६|४|१५८ |' इति बहोर्भुरा- देशः । इमनिजादिलोपश्च । भूमानं कुर्वन्तीति णिचि णाविष्ठवत्प्रातिपदि- कस्येतीष्ठवद्भावात् टिलोपयणादिपरलोपः । विन्मतोलुगर्थामति वचनाद्वा टिलोपः । किंच नोऽस्माकं कीर्ति कनयन्ति अल्पां कुर्वन्ति । अमरा इति योज्यम् । अल्पां कुर्वन्तीति णिचि णाविष्ठवद्भावाद् 'युवाल्पयोः कनन्यत- स्याम् |५|३|६४ |' इति कनादेशः ॥ २५ ॥ ( ४८३ ) दिशो व्यश्नुक्ते हप्तास्त्वत्कृतां जहति स्थितिम् । क्षोदयन्ति च नः क्षुद्रा हसन्ति त्वां विपद्गतम् ॥ २६ ॥ दिश इत्यादि---हप्तोः सन्तः दिशो व्यश्नुवते व्याप्नुवन्ति । स्थिति व्यवस्थां त्वत्कृताम् । 'प्रत्ययोत्तरपदयोश्च |७|२|१८|' इति त्वदादेशः । जहति त्यजन्ति । 'ओहाकू त्यागे' लट् । विपद्द्तं च त्वां हसन्ति । अल्पकायाः क्षोदयन्तीव क्षुद्रंमिवाचक्षत इति । भुवने यो हि न्यक्कृतत्रि- लोकः स कथं क्षुद्र उच्यते । 'स्थूलदूरवहस्वाक्षप्रक्षुद्राणां यणादिपरं पूर्व- स्य च गुणः | ६|४|१५६।' इति णौ यणादिपरलोपः पूर्वस्य च गुणः ॥ २६ ॥ शमं शमं नभस्वन्तः पुनन्ति परितो जगत् । उज्जिहीषे महाराज त्वं प्रशान्तो न किं पुनः ॥ २७ ॥ शममित्यादि----नभस्त्रन्तो वायवः शमं शमं शान्त्वा शान्त्वा । 'आभीक्ष्ण्ये णमुल च |३|४||२२|' इति णमुलि 'नोदात्तोपदेशस्य मान्तस्यानाचमेः |७|३| ३४।' इति वृद्धिप्रतिषेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् तपत्रित्रयन्तिं । प्रशान्ता अपि पुनर्भूत्वा पुनरुद्भूय जगत् १ ‘अभितः परितः समयानिकषाहा प्रतियोगेऽपि' इति द्वितीया | २ प्रवृद्धदर्पा: