पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४८२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टादश:- चनौकसो वनवासिनो मुनयः तपस्यन्ति । तपश्चरन्ति । 'कर्मणो रोमन्थतपो- भ्यां वर्तिचरोः |३|१|१५|' इति क्यङ् | तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा नो नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति । 'नमो वरिवश्चित्रङः क्यच |३|१२|१९| १ |॥ २१ ॥ श्रीनिष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः । न वेद तन्न यस्यास्ति मृते त्वयि विपर्ययः ॥ २२ ॥ श्रीरित्यादि----लङ्कायां पुर्याम् अधुना श्रीनिष्कुष्यति अतिक्रुद्धयति । 'कुष ‘रोषे’ ‘कुपिरजोः प्राचां श्यन् परस्मैपदं च |३|१|९०|| तत एव समृद्धयश्च विरज्यन्ति लङ्कातोऽपयान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । 'विदो लटो वा १३।४।८३।' इति मिपो गल् | यस्य त्वयि मृते न विपर्यय: नान्यथाभावः किंतु सर्वमेव विपरीतमिति तत्त्वम् ॥ २२ ॥ शक्ति संस्बजते शको गोपायति हरिः श्रियम् । देववन्द्यः प्रमोदन्ते चित्रीयन्ते घनोदयाः ॥ २३ ॥ - संस्वजते गृह्णाति । हरिर्विष्णुः शक्तिमित्यादि — शक्रः शक्ति प्रहरणमधुना "दंशसञ्जस्वञ्जां शपि । ६ । ४ । २५ । इत्यनुनासिकलोपः । `श्रियं गोपायति आत्मन्येव कृत्वा रक्षति । देववन्द्यः प्रमोदन्ते हृष्यन्ति । चनोदया मेघानां गगनेऽवस्थानानि चित्रीयन्ते नानारूपेणाद्भुतायन्ते । मृते त्वयीति सर्वत्र योज्यम् ॥ २३ ॥ अथ त्रिभिर्विशेषकम् – बिभ्रत्यस्त्राणि सामर्षा रणकाम्यन्ति चामराः | च । चकासति च मांसाऽदां तथा रन्ध्रेषु जाग्रति ॥ २४ ॥ बिभ्रतीत्यादि — अमरा देवा: सामेष: सकोपाः अस्त्राणि बिभ्रति धारयन्ति । रणकाम्यन्ति च आत्मनो रणमिच्छन्ति । आत्मेच्छायां ‘काम्यञ्च । ३ । १ । ९ ।। इति काम्यच् । चकासति च दीप्यन्ते 'जक्षित्यादित्वादद्भ्यस्तसंज्ञायां झेरदादेशः । तथा मांसादां राक्षसानाम् । ‘अदोऽनन्ने । ३।२।६८ ।। इति विट् । रन्ध्रेषु व्यसनेषु जाग्रति साव- घाना भवन्ति ॥ २४ ॥ १ 'कोपक्रोधामपरोष - ' इत्यमरः ।