सर्गः ] तिङ्काण्डम् । (४८१ ) त्वं स्म वेत्थ महाराज | यत् स्माह न विभीषणः । पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि ॥ १८ ॥ त्वमित्यादि ---- हे महाराज ! विभीषणो यदाह स्म उक्तवान् तत्त्वं न वेत्थ स्म न विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र 'अपराक्षे च ।३।२।११९।' इति लट् । तत्र पूर्वस्मिन् 'विदो लटो वा । ३।४।८३ ।' इति सिपस्था- देश: । अपरस्य 'ब्रुव: पञ्चानामादित आहो ब्रुनः । ३ । ४ । ८४ ।' इति तिपो णलादेशः । यद्यस्मात्त्वं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पाद- प्रहारेण पुरा पूर्वं त्यजसि त्यक्तवानसि । 'पुरि लुङ् चामे ||३||२||२२|| इति चकाराल्लट् ॥ १८ ॥ हविर्जक्षिति निःशो मखेषु मघवानसौ । - प्रवाति स्वेच्छया वायुरुङ्गच्छति च भास्करः ॥ १९ ॥ हविरित्यादि — असौ मेघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना जक्षिति भक्षयति। ‘रुदादिभ्यः सार्वधातुके ||७|२|७६ |'इतीट् । वायुश्च स्वेच्छया प्रवाति गच्छति । 'पवते' इति पाठान्तरं पवित्रीकरोतीत्यर्थः । भास्करश्चः यथेष्टमुद्गच्छति उदेति ।। १९ ॥ घनानामीशते यक्षा यमो दाम्यति राक्षसान् । - तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना ॥ २० ॥ धनानामित्यादि - यक्षाः कुबेरादयः धनानामीशते प्रभवन्ते 'स्वायं लभन्ते' इत्यर्थः । 'ईश ऐश्वये ।' यमोऽपि राक्षसान् दाम्यति वशीकरोति । वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना | भावे लट् | अधुत सर्वत्र योज्यम् । अणुनेति पाठान्तरं असम्पूर्णत्वात् ॥ २० ॥ शाम्यत्यृतुसमाहारस्तपस्यन्ति वनौकसः । नो नमस्यन्ति ते बन्धून् वरिवस्यन्ति नामराः ॥ २१ ॥ शाम्यतीत्यादि-ऋतूनां समाहार: सम्भूयावस्थानं शाम्यति अपैति । १ 'इन्द्रो मरुत्वान् मघवा' इत्यमरः । २ एतेन 'रावणस्य' 'भीषाऽस्माद्वा तः पवते' इत्यादिश्रुत्युक्तस्य परमात्मन इष महत्त्वं सम्भावितम् । एतस्य हि इच्छामुवर्तिनः सर्वेऽपन्द्रिादयः आसन्निति तथोक्तिः । ३ एवमादिवचन 'रावणस्य' सघजेतृत्वं सर्वत्रासकरवं सर्वेश्वरत्वं च सूचयत् सवभिलषितं मरणं सम्भावयति । ३१ A
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१९
दिखावट