पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८० ) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टादशः - छान्दसत्वात् । हलादावनन्तरे सार्वधातुके । 'तुरुस्तुशम्यम: ६।१।८९।” इति वृद्धिः । अभ्यमीति पाठान्तरमयुक्तं यतः 'अमो बहुलं छन्दसि' सार्वधातुके । ७ । ३ । ९५ ।। इतीट् ॥ १४ ॥ त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम् । दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ॥ १५ ॥ त्वमित्यादि — हे राजन् ! त्वमिदं यथाोद्तमजानन् स्वविक्रममीडिषे स्म स्तुतवानासे । 'ईड्जनोर्ध्वे च । ७ । २ । ७८ ।' इति चकारात् सेशब्दस्या- पीट् । एवं च कृत्वा त्वं सीतां दातुं नेच्छारी स्म नेष्टवानसि, विषयाणां शब्दादीनां नेशिषे स्म विषयान्न जितवानासे । 'ईशः से । ७ । २ । ७८ ।’ इती ट् ‘अधीगर्थदयेशां कर्म्मणि । २ । ३ । ५२ । ' इति कर्मणि षष्ठी । सर्वत्र 'अपरोक्षे च । ३ । २ । ११९ ।' इति लट् ।। १५ ।। , मन्त्रे जातु वदन्त्यज्ञास्त्वं तानप्यनुमन्यसे : कथं नाम भवांस्तत्र नावात हितमात्मनः ॥ १६ ॥ अपण्डिताः मूर्खा: अनुमत-. मन्त्र इत्यादि-~-मन्त्रविषये कर्त्तव्यावधारणधिषये सन्तः जातु कदाचिदपि वदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे वान् । इदमप्यतिगर्हितम् । 'गर्हायां लडपिजात्वोः । ३ । ३ । १४२ ।। इति अपिजात्वोरुषपदयोः कालसामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भगवान् रावणः विद्वानपि नात्मनो हितमवैति न विदितवान् । 'विभाषा कथमि लिङ् च | ३ | ३ | १४३ ।। इति कथं शब्द उपपदे चकारात् गयां लट् तत्र भवानिति 'इतराभ्योऽपि दृश्यन्ते | ५|३|१४|| इति भवदादि. योगे प्रथमान्तात् त्रल्प्रत्ययः ॥ १६ ॥ अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम् । न करोमीति पौलस्त्य ! तदा मोहात्त्वमुक्तवान् ।। १७ । अपृष्ट इत्यादि ---- किमम्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यवान् अपृष्टः सन् हितं नु प्रवीति । हे पौलस्त्य ! त्वं पुनहितमकार्षीरिति माल्य- वता पृष्टं तदा तस्मिन् काले न करोमीति मोहादज्ञानादुक्तवान्ं । अत्र शब्दे नशब्दे चोपपदे 'नौ पृष्ठप्रतिवचने | ३|२|१२० ।' इति भूते धात्वर्थे ' नन्वोर्विभाषा |३|२|१२१ ।' इति विभाषा लट् ।। १७ ।। १ 'कदाचिज्जातु' इत्यमरः ।