पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४७८) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टादश:- - प्राज्ञा इत्यादि — ये प्राज्ञाः बुद्धिमन्तः तेजस्विनः अस्मद्विधाः सम्यगविपरीतं शास्त्रचक्षुषा शास्त्रोपदेशजन्यबोधद्वारा पश्यन्ति वदन्ति च सम्यक् | हे महा- राज ! अवज्ञातास्ते तिरस्कृताः क्लाम्यन्ति स्वयं खिद्यन्ते तादृशेभ्यो विरमन्ति च विमुखा भवन्ति । 'तदवज्ञानफलमेतत्' इति भावः ॥ ६ लेढि भषजवान्नित्यं यः पथ्यानि कटून्यपि । तदर्थ सेवते चाप्तान कदाचिन्न स सीदति ॥ ७ ॥ लेढीत्यादि -- यस्तु स्वामी आदौ कटून्यपि पथ्यानि परिणामसुखानि भेषजवदौषधानीव नित्यं लेढि श्रोत्रेन्द्रियेण सहर्षमनुभवति तदर्थे चाप्तानविसं- वादिनः सेवते स कदाचिन्नावसीदति, इह च परत्र चावसन्नो न भवति ॥ ७॥ सर्वस्य जायते मानः स्वहिताच्च प्रमाद्यति । वृद्धौ भजति चापथ्यं नरो येन विनश्यति ॥ ८ ॥ सर्वस्येत्यादि–प्रायेण वृद्धौ सत्यां सर्वे जनो मानी सञ्जायते वृद्धेश्चित्त विकारित्वात् । स्वहिताच प्रमाद्यति हिताद्भष्टो भवति । अपथ्यमहितं च भजति सेवते । येनासेवितेन पथ्येन नरो विनश्यति ॥ ८ ॥ • सम्प्रदानसंज्ञा द्वेष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् । वैरायते महद्भिश्च शीयते वृद्धिमानपि ॥ ९ ॥ द्वेष्टीत्यादि - - यद्यस्माद्वद्धौ सत्यां प्रायेण गुणेभ्यः वृद्धसेवित्वादिभ्यः प्रभुद्वेष्टि । 'क्रुधद्रुहेर्ष्याऽसूयाऽर्थानां ये प्रति कोपः । १ । ४ । ३७ ।' इति न कस्यचित् स्निह्यति प्रीयते । महद्भिश्च सह वैरा- यते वैरं करोति 'शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे |३|१| १७ |' इति क्यङ् । तस्मात्कारणात् वृद्धिमानपि शोयते विनश्यति । शदे : शिति शीयादेशः । ‘शदेः शितः । १ । ३ । ६० ।। इति तङ् ॥ ९॥ समाश्वसिमि केनाहं कथं प्राणिमि दुर्गतः । लोकत्रयपतिर्भ्राता यस्य मे स्वपिति क्षितौ ॥ १० ॥ समाश्वसिमीत्यादि --- यस्य मम भ्राता लोकत्रयपतिः त्रिलोकीविजेतृत्वात् क्षितौ भूतले स्वपिति सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । 'रुदादिभ्यः सार्वधातुके। ७७२|७६ |' इतीट् । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥ १० ॥ १ 'अस्मायामधासजो विनिः ५|२|१२२|' इति विनिः ।