तिङ्काण्डम् | तदेव दर्शयन्नाह --- भूमौ शेते दशग्रीवो महार्हंशयनोचितः । नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥ २ ॥ भूमावित्यादि — महार्हशयने उचितो यः स भूमौ शेते । शोकाद्विह्वलं च मां नेक्षते । मेवाचं प्रतिवचनं न प्रयच्छति न ददाति । 'दादाने ।” 'पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यच्छे- धौशीयसीदाः । ७ । ३ । ७८ ।' इति यच्छादेशः ॥ २ ॥ विपाकोऽयं दशग्रीव संदृष्टोऽनागतो मया । त्वं तेनाऽभिहितः पथ्यं कि कोपं न नियच्छसि ॥ ३ ॥ विपाक इत्यादि - - हे दशग्रीव ! अयं विपाको मरणलक्षणं फलम् अना गतो भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यसि तेन कारणेन त्वमभिहितोऽसि 'सीतां मुञ्च' इति । अतः किमिति कोपं न नियच्छ नापनयसि । नास्त्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥ ३ ॥ सर्ग: ] भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः । तान्मदान्नावतिष्ठन्ते ये मते न्यायवादिनाम् ॥ ४॥ भजन्तीत्यादि- -- अन्यच्च ये स्वामिनो मदादवलेपात् मदोद्रेकात् न्याय- वादिनां माल्यवत्प्रभृतीनां राक्षसानां मते नावतिष्ठन्ते राज्यकार्यभारं नानु- ष्ठातुं प्रवर्त्तन्ते । ' समवप्रविभ्यः स्थः | १ | ३ | २२ ।' इति तङ् । ते पुरुषाः विपदस्तूर्णं भजन्ति अवसादं सेवन्ते । भजिरुभयपदी । सम्पदश्चा- तिक्रामन्ति त्यजन्ति ॥ ४ ॥ अपथ्यमायतौ लोभादामनन्त्यनुजीविनः । प्रियं शृणोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥ ५ ॥ (४७७) अपथ्यमित्यादि — प्रायेण ह्यनुजीविनः प्रहस्तादिसदृशाः आयतावा- गामिनि काले वृद्धावस्थायामपथ्यमनिष्टं फलं लाभेन तृष्णया वा प्रियमाम- नन्ति उपदिशन्ति 'साधु इदम्' इति । तेभ्यो यः शृणोति तं सम्पदो न ऋच्छन्ति । अर्तेः । ऋच्छादेशः ॥ ५ ॥ प्राज्ञास्तेजस्विनः सम्यक् पश्यन्ति च वदन्ति च । तेऽवज्ञाता महाराज क्लाम्यन्ति विरमन्ति च ॥ ६ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१५
दिखावट