पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४७६) भट्टिकाव्ये जयमङ्गलासमेते- आबघ्नन्कपिवदनानि सम्प्रसादं प्राशं सत्सुरसमितिनृप जितारिम् । अन्येषां विगतपरिप्लवा दिगन्ताः पौलस्त्योऽजुषत शुचं विपन्नबन्धुः ॥ ११२ ।। इति श्रीमहावैयाकरणभट्टिकविप्रणीते रामचरिते काव्ये तिङन्तकाण्डे लड़विलसितो नाम सप्तदशः सर्गः ॥ आबध्नन्नित्यादि – तस्मिन् हते कपिवदनानि कर्तृभूतानि प्रतोषात् सम्प्रसादमाबध्नन् सेवितवन्ति । सुरसमितिः सुराणां समितिः सभा, सङ्घो वा नृपं जितारिं प्राशंसत् तुतवती । अन्येषाम् अन्यजनानां दिगन्ताः रावणवधाद्विगतपरिप्लवा निरुपद्रवा जाता इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुषत् सेवितवान् । जुषिस्तु- दादावनुदात्तेत् ।। ११२ ॥ इति श्रीजयदेवापरनामधेय श्रीजयमङ्गलसूरिविरचितया जयमङ्गला- ख्यया व्याख्यया समलंकृते श्रीरामचरितापरपयये भट्टिकाव्ये चतुर्थे तिङन्तकाण्डे लक्षणरूपे चतुर्थः परिच्छेदः, लक्ष्यरूपे कथानके 'रावणवधो' नाम सप्तदशः सर्गश्च । अष्टादशः सर्गः । इत: प्रभृति लटमधिकृत्य लड्डिलसितमाह — तत्र वर्तमाने ऽन्यत्रापि दर्शयिष्यति [ अष्टादशः - व्यश्नुते स्म ततः शोको नाभिसम्बन्ध सम्भवः । विभीषणमसावुच्चै रोदिति स्म दशाननम् ॥ १ ॥ लट् ततो- व्यश्नुत इत्यादि -- ततो वधादनन्तरं शोको विभीषणं व्यश्नुते स्म व्याप्त- वान् । 'लट् स्मे | ३|२|११८' इति भूतानद्यतनपरोक्षे लट् । नाभिसम्बन्धेन एकोदरसम्बन्धेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषण: उच्च- मेहता शब्देन दशाननं नामग्राहं रोदिति स्म रुदितवान् ॥ १ ॥ १ 'सङ्घे सभायां समितिः' इत्यमरः । २ अत्र 'प्रहर्षिणी' वृत्तं तल्लक्षणं च यथोक्तं छन्दोऽनुशासने 'न्नौ नौ गः प्रहर्षिणी गैः । इति ।