सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४७५) समक्षुभ्रन्नित्यादि--छिन्नानां च पततां क्षोभादुदन्वन्तः सागराः समक्षु- नन् सञ्चलिताः । ‘क्षुभ सञ्चलने ? इति ऋयादिः । महीभृतः पर्वताः प्राकम्पन्त कम्पिता: । शक इन्द्रः संत्रासमबिभः भृतवान् । पततां शिरसां पुनः पुनरुदयात् । मायया विमोह्यायं राममजैषीदिति । बिभः द्विर्वचनम् । भृञामित् । ७।४ । ७६ ।' धातोर्गुणः । लोपविसर्जनीयौ । प्रैङ्खत् क्षुभितश्च स शक्रः । ‘उखउखिवखव खिमखम खि' इत्यादाविखिरिति पठ्यते । क्षितिश्च क्षुभिता चलिता ॥ १०८ ।। ततो मातलिना शस्त्रमस्मर्यंत महीपतेः । वधाय रावणस्योग्रं स्वयम्भूर्यदकल्पयत् ॥ १०९ ॥ Andwas तत इत्यादि—रावणस्य वधाय स्वयम्भूर्यदत्रमकल्पयत् कल्पितवान् । कृपेर्णौ गुणः।‘कृपो रो लः | ८|२|१८|' तदनं मातलिना अस्मर्यंत स्मारितम् । स्मरतेर्ण्यन्तात् कर्मणि लङ् । मित्त्वाद्भस्वत्वम् । महीपतेरिति शेषे षष्ठी॥१०९॥ कीदृशं तदित्याह- नभस्वान्यस्य वाजेषु फले तिग्मांशुपावकौ । गुरुत्वं मेरुसङ्काशं देहः सूक्ष्मो वियन्मयः ॥ ११० ॥ नभस्वानित्यादि-

- यस्य शस्त्रस्य वाजेषु पक्षेषु नभस्वान् वायुः सन्निहितः ।

फले शल्ये तिग्मांशुरादित्यः पावकश्च । यस्य गुरुत्वं मेरुवत् मेरोरिव | 'दृढत्वं मेरुसङ्काशम्' इति पाठान्तरम् । तत्र मेरुस्थगौरवसदृशमित्यर्थः । सूक्ष्मो देहो दिव्यचक्षुर्गम्यः वियन्मय आकाशस्वभावः ।। ११० ॥ गजितं गारुडै: पक्षैर्विश्वेषां धाम तेजसाम् । स्मृतं तद्रावणं भित्त्वा सुघोरं भुव्यशाययत् ॥ ११२ ॥ राजितमित्यादि — गारुडै: पक्षै राजितं शोभितम् । तेजसां विश्वेषाम् अनेकप्रकाराणां धाम स्थानम् । तदत्रं रामेण स्मृतं स्मृतिमागत्य सुघोरं रावणं भित्त्वा भुवि अशाययत् शायितवत् । रावणस्योदरं भित्त्वा भूमौ पातितवदित्यर्थः ॥ १११ ॥ १ ‘पक्षो वाजस्त्रिपूत्तरे' इत्यमरः | २ 'तत्र तस्येव ५॥ १ ॥ ११२' इति वतिः । ३ अयं लक्ष्योऽर्थः । यद्वा विश्वशब्दः सर्वतेजस्विपरः तेन तस्य तस्य तेजस्विनो यत्तेजस्तस्य ।