पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] (४७३ ) तिङ्काण्डम् । अदृश्यन्तानिमित्तानि माइलत् क्षितिमण्डलम् । रावणः प्राहिणोच्छूलं शक्ति चैन्द्रीं महीपतिः ॥ १०० ॥ अदृश्यन्तेत्यादि-—रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मण लङ् । क्षितिमण्डलं प्राह्वलत् । चलितम् । 'हल चलने ।' रावणश्चानिमित्तानि दृष्ट्वा ब्रह्मदत्तशूलं प्राहिणात् क्षिप्तवान् । महीपतिः स राम ऐन्द्रीं शक्ति प्राहि- गोत् । 'हि गतौ' स्वादिः ॥ १०० ॥ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः | लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥ १०१ ॥ ताभ्यामित्यादि – ताभ्यां शूलशक्तिभ्यामन्योन्यमासाद्य संश्लिष्य संशम: संशमनम्।घपि‘नोदात्तोपदेशस्य मान्तस्यानाचामेः।७।३।३४।' इति वृद्धिप्रतिषेधः। समवाप्यत प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्धो राक्षसः पत्रिणां शराणां लक्षण शतसहस्रेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सम्बन्धः । छादि- तवान् । प्वादीनां ह्रस्वः | ७|३|८० ।। १०१ ॥ अस्तृणादधिकं रामस्ततोऽदेवत सायकैः । अक्लाम्यद्रावणस्तस्य सूतो रथमनाशयत् ॥ १०२ ॥ अस्तृणादित्यादि—ततोऽनन्तरं रामो राक्षसादधिकम् अदेवत क्रीडितवान् । ' तेवृ देव देवने' इति भ्वादावनुदात्तेत् । स तथा देवमानेनाहतो रावणः अक्काम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारधिः स्वामिजीवितेच्छया रथमनाशयत् दूरम् अपनीतवान् ॥ १०२ ॥ राक्षसोऽतर्जयत सूतं पुनश्चाढौकयद्रथम् । निरास्येतामुभौ बाणानुभौ धुर्यानविध्यताम् ॥ १०३ ॥ 6 राक्षस इत्यादि - राक्षसो रावण: सूतमतर्जयत् भर्त्सितवान् । हा पाप ! किं शत्रुसमीपाद्रथं पराङ्मुखयसि' इति । इत्थं संतर्जितः सूतः पुना- रथमढौकयत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ बाणा- न्निरास्येतां क्षिप्तवन्तौ । ‘उपसर्गादस्यत्यूयोर्वा' इति तङ् । धुर्यानश्वान विध्यतां ताडितवन्तौ ॥ १०३ ॥ उभावकृन्ततां केतूनव्यथेतामुभौ न तौ । अदीप्येतामुभौ घृष्णू प्रायुञ्जतां च नैपुणम् ॥ १०४ ॥ १ दृष्टपथादिति शेषः। 'णशू अदर्शने' इत्येतावन्तमर्थमपेक्ष्यास्य प्रयोगात् ।