पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४७२) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - सन् परानुत्सहतोऽभ्यद्रवत् अभिमुखं गतवान् | अकृच्छ्रायत च कृच्छ्राय पापाय कर्मणे क्रमितवान् । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' इति क्यङ् । कण्वचिकीर्षा पापचिकीर्षा ॥ ९६ ॥ भूमिष्ठस्यासमं युद्धं रथस्थेनेति मातलिः । आहरद्रथमत्युग्रं सशस्त्रं मघवाज्ञया ॥ ९७ ॥ भूमिष्ठस्येत्यादि– भूमिष्ठस्य रामस्य । 'अम्बाम्बगोभूमिसव्यापद्वित्रि- कुशेकुशङ्क्वङ्गमञ्जुपुजिपरमेबर्हिर्दिव्यग्निभ्यः स्थः |८|३|९७ | इति मूर्धन्यः । रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो मेघ- चतः इन्द्रस्य आज्ञया मातलि : सशस्रं रथमत्युग्रमाहरत् आनीत- "4 चान् ॥ ९७ ।। सोऽध्यष्ठीयत रामेण शस्त्रं पाशुपतं ततः | निरास्यत दशास्यस्तच्छकाखेनाजयन्नृपः ॥ ९८ ॥ सोऽध्यष्ठीयतेत्यादि -- स रथो रामेणाध्यष्टीयत अध्या मतः कर्मणि लङ । 'घुमास्थागापाजहातिसां हलि । ६।४ । ६६ ।" इती वम् । 'उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय संघासचसजस्वञ्जाम् |८ | ३ |६५।१ इति षत्वमव्यवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्थत क्षिप्त- वान् । 'उपसर्गादस्यत्यूह्योर्वा वचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रा- खणाजयत् जितवान् ॥ ९८ ॥ ततः शतसहस्रेण रामः प्रौनिशाचरम् | बाणानामक्षिणोद्धुर्यान् सारथिं चादुनोद्द्रुतम् ॥ ९९ ॥ तत इत्यादि --- ततोऽनन्तरं रामः निशाचरं रावणं बाणानां शतसहस्रेण लक्षण प्रौर्णोत् छादितवान् । 'गुणोऽपृक्ते । ७।३।९१|' इति गुणः । द्रुतं धुर्यान- श्वान् । 'धुरो यड्ढकौ | ४|४|७७ । ' इति यत् । अक्षिणोत् हतवान् । सारथिं चादुनोत् उपतापितवान् ॥ ९९ ॥ १ 'इन्द्रो मरुत्वान् मघवा' इत्यमरः | २ 'धूर्वहे धुर्यधारेयधुरीणाः सधुरन्धराः । इत्यमरः ।