सर्गः ] तिङ्काण्डम् | (४७१) विगतप्राण रामानुजं लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । 'अनौ कर्मणि । ३ । २ । १०० ।' इति डः । स च लक्ष्मणो विद्धः व्यसुः ईव महीमाश्रयतः आश्रितवान् | भुवि पतित इत्यर्थः ॥ ९२ ॥ राघवस्याभृशायन्त सायकास्तैरुपद्रुतः । ततस्तूर्ण दशग्रीवो रणक्ष्मां पर्यशेषयत् ॥ ९३ ॥ राघवस्येत्यादि -- तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणा: अभृशा- यन्त अभृशा भृशा अभवन् शीघ्रगतयो जाता इत्यर्थः । ततस्तैरुपद्रुतो दशग्रीवः तूष्णीं भूत्वा रणक्ष्मां रणभूमिं पर्यशेषयत् त्यक्तवान् । 'शिप अस- PAR र्वोपयोगे’ चुरादिः ॥ ९३ ॥ E सस्फुरस्योंदकर्षच्च सौमित्रेः शक्तिमग्रजः । असिञ्चदोषधस्ता याः समानीता हनूमता ॥ ९४ ॥ सस्फुरस्येत्यादि – अग्रजश्च ज्येष्ठो - भ्राता रामः सौमित्रेः लक्ष्मणस्य सस्फुरस्य उच्छ्वसतःशक्त्याहततया मूच्छितत्वेऽप्यानगर्तप्राणत्वात् हृदयलग्नां वक्षसि प्रविष्टामुदकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत् व्रणदेशेषु क्षारितवान् ॥ ९४ ॥ Mam उदजीवत्सुमित्राभूर्भ्राताऽऽश्लिष्यत्तमायतम् । सभ्यङ् मूर्धन्युपाशिङ्खदपृच्छच्चनिरामयम् ॥ ९५ ॥ उदजीवदित्यादि-ततः सुमित्राभूर्लक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् त च जीवितं भ्राता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि च सम्यगुपाशित आघातवान् । 'शिधि आघ्राणे' । निरामयं च कुशलमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति ॥ ९५ ॥ ततः प्रोदसहन्सर्वे योद्धुमभ्यद्रवत्परान् । अकृच्छ्रायत च प्राप्तो रथेनान्येन रावणः ॥ ९६ ॥ तत इत्यादि – पुनः सर्व एव रामादयो योद्धं प्रोदसहन् प्रोत्साहितवन्तः ॥ 'सह मर्षणे' इति चौरादिकः परस्मैपदी । 'आ' घृषाद्वा' इति णिज्न भवति । न तु भौवादिकः । तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः १ अयं लक्ष्योऽर्थः । वस्तुतो यथोक्ताया व्यसुताया आसन्नत्वात् । २ पीडितः। ३ सुभित्राया भवतीति यथोक्तः । क्किए । ४ मस्तके | मस्तकाघ्राणं ह वात्सल्यातिशयेनेति शिष्टाचारः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०९
दिखावट