(४७०) भट्टिकाव्ये जयमङ्गलासमेते- ततस्त्रिशिरसं तस्य प्रावृश्चल्लक्ष्मणो ध्वजम् । अमश्नात्सारथिं चाशु भूरिभिश्चातुच्छरैः ॥ ८९ ॥ [ सप्तदशः - तत इत्यादि — ततोऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूलाग्रं प्रावृश्चत् छिन्नवान् । 'ओत्रश्चू च्छेदने' तुदादौ । सारथिं चामनात् ध्वस्तवान् । ‘मन्थ विलोडने' क्र्यादिः । भूरिभिश्च प्रभूतैः शरैरतुदत् व्यथितवान् ॥ ८९ ॥ अश्वान्विभीषणोऽतुभ्नात्स्यन्दनं चाक्षिणोद्भुतम् । • नाक्षुभ्राद्राक्षसो भ्रातुः शक्ति चोदवृहहरुम् ॥ ९० ॥ अश्वानित्यादि — विभीषणश्चाश्वानतुम्नात् हतवान् । 'णभ तुभ हिंसा- याम्' स्यन्दनं चाक्षिणोत् भग्नवान् । 'क्षिणु हिंसायाम्' तनादौ । राक्षस रावणः नाक्षुम्नात् न क्षोभं गतः । 'क्षुभ सञ्चलने' क्यादौ गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं महतीं शक्तिसुदबृहत् उद्यतवान् । ‘वृहू उद्यमने’ तुदादौ । गुरुमिति 'वोतो गुणवचनात् । ४ । १।४४ ।' इति विकल्पेन डीप् ॥ ९० ॥ तामापतन्तीं अशब्दायन्त सौमित्रिस्त्रिधाऽकृन्तच्छिलीमुखैः । पश्यन्तस्ततः क्रुद्धो निशाचरः ॥ ९१ ॥ - तामित्यादि -- तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैत्रिधा त्रिप्र- कारम् अकृन्तत् छिन्नवान् । 'कृती छेदने' दादौ । यत्र प्रेक्षकाः पश्यन्तः ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । 'शब्द- वैरकलहाभ्रकण्वमेधेभ्यःकरणे | ३ | १ | २७ । ' इति करोत्यर्थे क्यङ् । ततो- ऽनन्तरं निशाचरो रावणः क्रुद्धः क्रोधं कृतवान् ॥ ९१ ॥ क्रुद्धो निशाचरः किं कृतवानित्याह--- ! अष्टघण्ठां महाशक्तिमुदयच्छन्महत्तराम् । रामानुजं तयाविध्यत्स महीं व्यसुराश्रयत् ॥ ९२ ॥ अष्टेत्यादि- अष्टौ घण्टा यस्यां महाशक्तौ तां शक्ति प्रभावेण महत्तराम् अतिशयेन महाप्रमाणाम् उदयच्छत् उद्यतवान् । 'समुदायो यमोऽग्रन्थे | १ | ३ | ७५ |' इति तङ् न भवति अकर्त्रभिप्रायत्वात् । तया च करणभूतया १ 'अलिबाणौ शिलीमुखौ ।' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०८
दिखावट