पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । व्योम प्राचिनुतां बाणैः क्ष्मामक्ष्मापयतां गतैः । अभित्तां तूर्णमन्योन्यं शिक्षाश्चातनुतां मुहुः ॥ ८५ ॥ व्योमेत्यादि – बाणैव्यों प्राचिनुतां छादितवन्तौ । क्ष्मों पृथिवीं अक्ष्मापयतां कम्पितवन्तौ । 'क्ष्मायी विधूनने' । 'अर्तिह्वीलीरीक्नूयी- क्ष्माय्यातां पुणौ । ७।३ | ३६ || इति पुक् । अन्योन्यमभित्तां विदारित- वन्तौ । ‘श्नसोरल्लोपः । ६। ४ । १११ ।' चवेंन च तकारः । तूर्ण झटिति शिक्षाः धनुषि कौशलानि मुहुर्वारंवारमतनुतां विस्तारितवन्तौ ॥ ८५ ॥ समाधत्तासुरं शस्त्रं राक्षसः क्रूरविक्रमः । a तदक्षरन्महासर्पान्ज्याघ्रसिंहांश्च भीषणान् ॥ ८६ ॥ (४६९) - समाधत्तेत्यादि — राक्षस: असुरं शस्त्रं समाधत्त धनुष्यारोपितवान् | लौ द्विवचनमभ्यास कायम् । 'श्नाभ्यस्तयोरातः । ६ । ४ । १२ ।' इत्याकार- लोपः । 'दघस्तथोश्च । ८ | २ |३८ ।' इति भषूभावः । 'झपस्तथोर्थोऽधः |८|२|४०|' इति प्रतिषेधात् तकारस्य धत्वं न भवति । तत्संहितं सर्पा- दीन् अक्षरत् मुक्तवत् ।। ८६ ।। न्यषेधत्पाव कात्रेण रामस्तद्राक्षसस्ततः । अदीव्यद्रौद्रमत्युग्रं मुसलाद्यगलत्ततः ॥ ८७ ॥ न्यषेधदित्यादि – तदासुरं शस्त्रं रामः पावकास्त्रेण आग्नेयास्त्रेण न्यषेधत् निषिद्धवान् । ततो राक्षसो रौद्रमस्वमत्युप्रम दीव्यंत् क्षिप्तवान् । अत्र 'दिवु क्रोडाविजिगीषाव्यवहार द्युतिस्तुतिमो दमदस्वप्तकान्तिगतिषु' इति । दिविर्गतौ वर्तते । ततो रौद्रात् क्षिप्तात् मुसलादिप्रहरणमगलत् निर्गतवत् । 'गल अदने' अनेकार्थत्वाद्वातूनां गलिरत्र निर्गमे वर्तते ॥ ८७ ।। गान्धर्वेण न्यविध्यत्तत्क्षितीन्द्रोऽथ नराशनः । सर्वमर्मसु काकुत्स्थमौम्भत्तीक्ष्णैः शिलीमुखैः ॥ ८८ ॥ गान्धर्वेणेत्यादि – क्षितीन्द्रो रामः तद्रोद्रमस्रं गान्धवेंणास्त्रेण न्यवि- ध्यत् ताडितवान् । अथ नराशनोनाम राक्षसः शिलीमुखैबणैः सर्वमर्मसु काकुत्स्थमौम्भत पूरितवान् । 'उम्भ पूरणे' तुदादौ ॥ ८८ ।। १ 'व्योम 'पुष्करमम्बरम्।' इत्यमरोक्त्याऽऽकाशमित्यर्थः । २ 'क्षमावनिमेर्दिनी मही' इत्यमरः ।