पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४६८) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - आलोकयदित्यादि-स दशग्रीवः कौकुत्स्थमालोकयत् दृष्टवान् । घोरं घोरदर्शनमधृष्णोत् वृष्टवान् । 'ञिवृषा प्रागल्भ्ये' इति स्वादिः । ताननुस - रन् घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमि तवान् । 'मितां ह्रस्वः |६|४|१२|| मान्तत्वान्मित्त्वम् | ये विंद्विषो वानरा न पलायिताः तानभीषयत त्रासितवान् । 'भियो हेतुभये षुक् |७|३|४० 'भीस्म्योर्हेतुभये । १।३।६८ |' इति तङ् ॥ ८१ ॥ आस्कन्दल्लक्ष्मणं बाणैरत्यक्रामच्च तं द्रुतम् । राममभ्यद्रवज्जिष्णुरस्कुनाच्चेषुवृष्टिभिः ॥ ८२ ॥ आम्कन्ददित्यादि — जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं बाणैरास्कन्दत् बाधितवान् । ‘स्कन्दिर् गतिशोषणयोः' । तं च लक्ष्मणं द्रुतमत्यक्रामत् आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्रवत् अभिमुखं गतवान् । 'द्रु गतौ' । इषुवृष्टिभिर्वाणानां सातत्येन प्रपातैः अस्कुनात् छादि- तवान् । 'कुन् आवरणे' 'स्तम्भुस्तुम्भुस्कम्भुस्कुभुस्कुञ्भ्यः शनुश्च | ३ | १ | ८२ |' इति चकारांत् आ ॥ ८२ || अपौहद्वाणवर्षे तद्भल्लै रामो निराकुलः । प्रत्यस्कुनोदशग्रीवं शरैराशीविषोपमैः ॥ ८३ ॥ अपौहदित्यादि----तद्वाणवर्षे रामो निराकुलः सन् भलैरपोहत् अपनी- तवान् । 'उपसर्गदस्यत्यूह्योर्वा' इति पक्षे तिप् । दशग्रीवं शरैः बाणैराशीविषो- मैः दुःसहत्वात्प्रत्यस्कुनोत् । प्रतीपं छादितवान् । अत्र शनुप्रत्ययः ॥ ८३ ॥ ॥ मण्डलान्यटतां चित्रमच्छित्तां शस्त्रसंहतीः । - जगद्वयस्मापयेतां तौ न च वीरावसीदताम् ॥ ८४ ॥ मण्डलानीत्यादि-चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्र- संहती: अच्छित्तां च्छिन्नवन्तौ । जगत् व्यस्मापयेतां विस्मापितवन्तौ । 'नित्यं स्मयतेः । ६ । १ । ५७ ।' इत्यात्वम् । न च तौ वीरौ असीदताम् अवसन्नौ | 'पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ- पश्यर्च्छधौशीयसीदाः । ७ । ३ । ७८ ।' इति सीदादेशः ॥ ८४ ॥ १ वृषभरूपधारिण इन्द्रस्य ककुदि स्थिास्वा दैत्याञ् शाशादिर्जघानेति ककुत्स्थस्य तस्व वंशभवं राममित्यर्थः। एवमभिधानेनास्य परम्पराप्राप्तमपि प्रभूतप्रभाक्त्वं सूचितम् ।